पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
७६७
बालमनोरमा ।

१४३३ । दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ् । (४-३-५६)

दार्तेऽयम् । कौक्षेयम् । कलशिर्घटः तत्र भवं कालशेयम् ।

१४३४ । ग्रीवाभ्योऽण् च । (४-३-५७)

चाड्ढञ् । ग्रैवेयम्-ग्रैवम् ।

१४३५ । गम्भीराञ्ञ्जयः । (४-३-५८)

गम्भीरे भवं गाम्भीर्यम् । 'पञ्चजनादुपसङ्ख्यानम्' (वा २८६८) । पाञ्चजन्य: ।

१४३६ । अव्ययीभावाच्च । (४-३-५९)

परिमुखं भवं परिमुख्यम् । 'परिमुखादिभ्य एवेष्यते' (वा २८६६) । नेह, औपकूल: ।

१४३७ । अन्तःपूर्वपदाट्ठञ् । (४-३-६०)

'अव्ययीभावात्' इत्येव । वेश्मन्यन्तोऽन्तर्वेश्मम् । तत्र भवमान्तर्वेश्मिकम् । आन्तर्गणिकम् । 'अध्यात्मादेष्ठञिष्यते’ (वा २८६९) । अध्यात्मं भवम् आध्यात्मिकम् ।


देशविशेषेषु । दृतिकुक्षि ॥ भव इत्यर्थे दृति, कुक्षि, कलशि, वस्ति, अस्ति, अहि, इत्येभ्यः सप्तम्यन्तेभ्यः इति शेषः । दार्तेयमिति ॥ दृतौ भवमित्यर्थः । ढञ्, एयः, आदिवृद्धिः, रपरत्वम् । दृतिश्चर्मभस्त्रिका । कौक्षेयमिति ॥ धूमादित्वाद्रुञि प्राप्ते ढञ् । कलशिर्घट इति ॥ “कलशिर्मथनपात्रम्” इत्यमरव्याख्यातारः । “वस्तिर्नाभेरधो द्वयोः' इत्यमरः । तत्र भवो वास्तेयः । अस्तीति विभक्तिप्रतिरूपकमव्ययम् । सत्तायान्धने चेति न्यासकारो हरदत्तश्च । तत्र भवः आस्तयः । अहिः सर्पः, तत्र भवः आहेयः । ग्रीवाभ्योऽण् च ॥ 'शरीरावयवाच्च' इति यतोऽपवाद । ग्रीवाशब्दोऽयं धमनीसङ्गे वर्तते । तत्र उद्भूतावयवभेदसङ्घविवक्षायाम्बहुवनान्तात्प्रत्यय इति सूचयितुम्बहुवचनम् । तिरोहितावयवभेदविवक्षायान्तु एकवचनान्तादप्यण्ढञौ स्त एव । गम्भीराञ्ञ्यः ॥ गाम्भीर्यमिति । यञ्विधौ तु स्त्रियां ‘प्राचां ष्फस्तद्धितः’ इति ष्फः स्यात् । अव्ययीभावाच्च ॥ ञ्य इति शेषः । परिमुखादिभ्य इति ॥ यद्यपीदं वार्तिकं भाष्ये न दृष्ट, तथापि दिगादिगणपाठानन्तरं परिमुखादिगणपाठसामर्थ्यादिहाव्ययीभावपदं परिमुखादिपरमिति गम्यते । नह्यष्टाद्ध्याय्याम्परिमुखादिगणस्य कार्यान्तरमस्ति । औपकूल इति ॥ उपकुलम्भव इत्यर्थः । अव्ययीभावत्वेऽपि परिमुखाद्यनन्तर्भावात् न ञ्यः । अन्तःपूर्वपदाट्ठञ् ॥ वेश्मनि अन्तर्वेश्ममिति विभक्तयर्थे अव्ययीभावः । 'अनश्च' इति टचू । आन्तर्वेश्मिकमिति ॥ ठञ्, इकः, सुब्लुक्, टिलोपः, आदिवृद्धिः । आन्तर्गणिकमिति ॥ गणे इत्यन्तर्गणम् । तत्र भवमित्यर्थः । आद्ध्यात्मिकमिति ॥ आत्मनीत्याद्ध्यात्मम् । तत्र