पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७६६
[शैषिक
सिद्धान्तकौमुदीसहिता

१४२७ । तदस्य सोढम् । (४-३-५२)

’कालात्' इत्येव । निशा, सहचरितमध्ययनं निशा, तत्सोढमस्य नैशिक:-नैशः ।

१४२८ । तत्र भवः । (४-३-५३)

स्रुघ्ने भवः स्रोघ्नः । राष्ट्रियः ।

१४२९ । दिगादिभ्यो यत् । (४-३-५४)

दिश्यम् । वर्ग्यम् ।

१४३० ।। शरीरावयवाच्च । (४-३-५५)

दन्त्यम् । कण्ठ्यम् ।

१४३१ । प्राचां नगरान्ते । (७-३-२४)

प्राचां देशे नगरान्तेऽङ्गे पूर्वपदस्योत्तरपदस्य चाचामादेरचो वृद्धिर्ञिति णिति किति च । सुह्मनगरे भवः सौह्मनागरः । पौर्वनागरः । ‘प्राचाम्’ किम् । मद्रनगरम् उदक्षु, तत्र भवो माद्रनगरः ।

१४३२ । जङ्गलधेनुवलजान्तस्य विभाषितमुत्तरम् । (७-३-२५)

जङ्गलाद्यन्तस्याङ्गस्य पूर्वपदस्याचामादेरचो वृद्धिरुत्तरपदस्य वा ञिति णिति किति च । कुरुजङ्गले कौरुजङ्गलम् -- कौरुजाङ्गलम् । वैश्वधनवम्-वैश्वधैनवम् । सौवर्णवलजम्-सौवर्णवालजम् ।


तदस्य सोढम् ॥ अस्मिन्नर्थे प्रथमान्ताद्यथाविहितम्प्रत्ययाः स्युः सोढमित्यस्य अभ्यस्तमित्यर्थः। नैशिकः-नैशः इति ॥ ‘निशाप्रदोषाभ्याञ्च' इत्यण्ठञौ । तत्र भवः । कालादिति निवृत्तम् । अस्मिन्नर्थे सप्तम्यन्ताद्यथाविहितं स्युरित्यर्थः । भवन सत्ता, जननमुत्पत्तिरिति भेदः । स्रौघ्न इति ॥ औत्सर्गिकोऽण् । राष्ट्रिय इति ॥ ’राष्ट्रावार' इति घः । दिगादिभ्यो यत् ॥ भवः इत्यर्थे सप्तम्यन्तेभ्य इति शेषः । दिश्यमिति ॥ दिशि भवमित्यर्थः । शरीरावयवाच ॥ भव इत्यर्थे सप्तम्यन्तेभ्य इति शेषः । दन्त्यमिति ॥ दन्ते भवमित्यर्थः । ’यस्येति च' इत्यकारलोपः । एवङ्कण्ठयम् । प्राचान्नगरान्त ॥ अङ्गस्येत्यधिकृतं नगरान्ते इति सप्तम्यनुरोधेन सप्तम्या विपरिणम्यते । 'उत्तरपदस्य' इत्यधिकृतम् । हृद्भगसिन्ध्वन्ते' इति सूत्रात्पूर्वपदस्येत्यनुवर्तते । तदयमर्थः । प्राचां यन्नगरं तदन्ते अङ्गपूर्वपदस्योत्तरपदस्य च अचामादेरचां वृद्धिः स्यात् ञिति णिति किति च तद्धिते इति । सुह्मनगरमिति पुण्ड्रनगरमिति च पूर्वान्तावयवः । मद्रनगरम् उदक्ष्विति । उदग्देशे मद्रनगरन्नाम किञ्चिन्नगरमस्तीत्यर्थः । जङ्गलधेनु ॥ जङ्गलाद्यन्तस्याङ्गस्येति ॥ जङ्गल , धेनु, वलज, इत्यन्तस्येत्यर्थः । कुरुजङ्गले इति ॥ भवमिति शेषः । कुरुजङ्गलादिशब्दाः