पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७६४
[शैषिक
सिद्धान्तकौमुदीसहिता

' तत्र ' इत्येव । स्रुघ्ने प्रायेण बाहुळ्येन भवति स्रोघ्नः ।

१४१५ । उपजानूपकर्णोपनीवेष्ठक् । (४-३-४०)

औपजानुकः । औपकर्णिकः । औपनीविकः ।

१४१६ । सम्भूते । (४-३-४१)

स्रुघ्ने सम्भवति स्रोघ्नः ।

१४१७ । कोशाड्ढञ् । (४-३-४२)

कौशेयं वस्त्रम्

१४१८ । कालात्साधुपुष्प्यत्पच्यमानेषु । (४-३-४३)

हेमन्ते साधुर्हैमनः प्रावारः । वसन्ते पुष्प्यन्ति वासन्त्यः कुन्दलताः । शरदि पच्यन्ते शारदाः शालयः ।

१४१९ । उप्ते च । (४-३-४४)

हेमन्ते उप्यन्ते हैमन्ता यवाः ।

१४२० । आश्वयुज्या वुञ् । (४-३-४५)

ठञोऽपवादः । आश्वयुज्यामुप्ता: आश्वयुजका: माषाः ।


इत्येव सिद्धत्वात् प्रत्याख्यातमिदम्भाष्ये । उपजानूपकर्ण । प्रायभव इत्यर्थे उपजानु उपकर्ण उपनीवि इत्येभ्यः ठगित्यर्थः । उपजान्वादिषु सामीप्येऽव्ययीभावः । औपजानुक इति ॥ जानुनः समीपमुपजानु । तत्र प्रायभव इत्यर्थः । उगन्तात्परत्वात् ठस्य कः । औपकर्णिक इति ॥ कर्णस्य समीपमुपकर्ण, तत्र प्रायभव इत्यर्थः । औपनीविक इति ॥ नीवेः समीपमुपनीवि, तत्र प्रायभवः इत्यर्थः । सम्भूते ॥ तत्रेत्येव । सप्तम्यन्तात्सम्भूतेऽर्थे अणादयो घादयश्च यथायथं स्युरित्यर्थः । सम्भवः सम्भावना । कोशाड्ढञ् ॥ कौशेयं वस्त्रमिति ॥ कृमिविशेषकोशस्य विकार इत्यर्थः। विकारे ‘कोशाड्ढञ्’ इति वार्तिकात् । कालात्साधुपुष्प्यत् ।।तत्रेत्येव । साधु, पुष्प्यत्, पच्यमानम्, इत्यर्थेषु सप्तम्यन्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः ।’पुष्प विकसने' इति दैवादिकात् लटः शतरि पुष्प्यदिति भवति । हैमनः प्रावार इति ।'सर्वत्राण् तलोपश्च' इत्यणि तलोपः । वासन्त्य इति । 'टिड्ढ' इति डीप् । शारदा इ यत्र ऋत्वाणि 'तत्र भवः’ इति यावत् कालादित्यनुवर्तते । उते च । तत्रेत्येव । कालवाचिनः सप्तम्यन्तादुप्तेऽर्थे यथाविहितम्प्रत्ययाः स्युः । उप्यन्त इति ॥ 'डु वप् बीजसन्ताने' भूतकालस्त्वविवक्षित इति भावः । आश्वयुज्या वुञ् । तत्रोप्त इत्येव । सप्तम्यन्तादश्वयुजीशब्दात् उप्तेऽर्थे वुञ् स्यादित्यर्थः । ठञोऽपवाद इति ॥ 'कालाद्वञ' इति विहितस्येत्यर्थः ।आश्वयुजका माषा इति । अश्वयुग्भ्यां युक्ता पौर्णमासी आश्वयुजी, तत्रोप्ता इत्यर्थः ।