एभ्यो जातार्थप्रत्ययस्य लुक् स्यात् । गोस्थाने जातो गोस्थानः । गोशालः । खरशालः । ’विभाषा सेना-' (सू ८२८) इति नपुंसकत्वे ह्रस्वत्वम् ।
१४११ । वत्सशालाभिजिदश्चयुक्छतभिषजो वा । (४-३-३६)
एभ्यो जातार्थस्य लुग्वा स्यात् । वत्सशाले जातो वत्सशालः-वात्सशालः इत्यादि । ’जातार्थे प्रतिप्रसूतोऽण्वा डिद्वक्तव्यः' (वा २६९०) । शातभिषजः-शातभिषः-शतभिषक् ।
१४१२ । नक्षत्रेभ्यो बहुळम् । (४-३-३७)
जा तार्थप्रत्ययस्य बहुळं लुक् स्यात् । रोहिणः-रौहिणः ।
१४१३ । कृतलब्धक्रीतकुशलाः । (४-३-३८)
’तत्र' इत्येव । स्रुघ्ने कृतो लब्धः क्रीतः कुशलो वा स्रौघ्नः ।
१४१४ । प्रायभवः । (४-३-३९)
गोशाल,.खरशाल, एतेभ्य इत्यर्थः । गोस्थान इति । गोस्थाने जात इत्यर्थः । गोशाल इति ॥ गोशाले जात इत्यर्थः । एवङ्करशालः । सर्वत्र अणो लुकि नादिवृद्धिः । ननु शालाशब्दस्य स्त्रीलिङ्गत्वात् ह्रस्वनिर्देशोऽनुपपन्न इत्यत आह । विभाषा सेनेति ॥ लिङ्गविशिष्टपरिभाषया स्त्रीलिङ्गादपि लुक् । वत्सशालाभिंजित् । एभ्य इति ॥ वत्सशाला, आभिजित्, अश्वयुज्, शतभिषज्, इत्येभ्य इत्यर्थः । परस्येति शेषः । इत्यादीति । अभिजिति जातः आभिजितः-अभिजिन् । अश्वयुजोजीतः आश्वयुजः-अश्वयुक् । शतभिषाजि जातः शाताभिषजः-शतभिषक् । जातार्थे इति ॥ कालाद्वञ्' इति ठञा निवर्तितः औत्सर्गिकोऽण् सन्धिवेलादिसूत्रेण पुनरुत्थितो डिद्वा वक्तव्य इत्यर्थः । ’दृष्टं साम' इति सूत्रभाष्ये इदं वार्तिकं दृष्टम् । शातभिष इति ॥ आणि डित्त्वपक्षे टिलोपः । नक्षत्रेभ्यो बहुळम् ।। रोहिण इति । रोहिण्याञ्जात इत्यर्थः । नक्षत्राणो लुकि आदिवृद्धिनिवृत्तौ ‘लुक् तद्धितलुकि' इति स्त्रीप्रत्ययनिवृत्तिः । नच तथा सति तकारस्य नकारोऽपि निवर्तेतेति वाच्यम् । न हि रोहितशब्दोऽयं वर्णविशेषवाचकः । येन ’वर्णादनुदात्तात्' इति डीपो निवृत्तौ तकारोऽपि निवर्तते । किन्तु रोहिणीशब्दोऽयमव्युत्पन्नो नक्षत्रविशेषे रूढः । रोहिणीनक्षत्रे इति गौरादिपाठात् ङीष् । अत एव ‘रोहिणीनक्षत्रम्प्रजापतिर्देवता’ इत्यादौ अन्तोदात्तत्वं श्रूयमाणन्न विरुध्यते । अन्यथा 'वर्णनान्तणतिनितान्तानाम्' इति आद्युदात्तत्वं स्यादित्यलम् । कृतलब्ध ॥ तत्रेत्येवेति ॥ ‘तत्र जातः’ इत्यतस्तत्रेत्येवानुवर्तते । जात इति तु निवृत्तमित्यर्थः । तथा च कृतो लब्धः क्रीतः कुशलो वेत्यर्थे सप्तम्यन्तादणादयो घादयश्च यथायथ स्युरित्यर्थः । स्रौऽघ्न इति ॥ औत्सर्गिकोऽण् । राष्ट्रे कृतो राष्ट्रिय इत्याद्यप्युदाहार्यम् । प्रायभवः ॥ तत्रेत्येवेति । प्रायभव इत्यर्थे सप्तम्यन्तादणादयो घादयश्च यथायथं स्युरित्यर्थः । प्रायशब्दत्य व्याख्यानम्बाहुळ्येनेति । तत्र भव