सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
७५९
बालमनोरमा ।

१३९६ । उत्तरपदस्य । (७-३-१०)

अधिकारोऽयम् । 'हनस्तः-' (सू २५७४) इत्यस्मात्प्राक् ।

१३९७ । अवयवादृतोः । (७-३-११ )

अवयववाचनः पूर्वेपदादृतुवाचिनोऽचामादेरचो वृद्धिः स्यात् । ञिति णिति किति च तद्धिते परे । पूर्ववार्षिकः । अपरहैमनः । “अवयवात्' किम् । पूर्वासु वर्षासु भवः पौर्ववर्षिकः । 'ऋतोवृद्धिमद्विधावयवानाम्’ (वा ५६०) इति तदन्तविधिः पूर्वत्र । इह तु न, अवयवत्वाभावात् ।

१३९८ । सुसर्वार्धाज्जनपदस्य । (७-३-१२)

उत्तरपदस्य वृद्धिः । सुपाञ्चालकः । सर्वपाञ्चलकः । अर्धपाञ्चालकः । जनपद्तवध्योः - (सू १३४८) इति वुञ् । 'सुसर्वार्धदिक्छब्देभ्यो जन पदस्य' (वा ५५९) इति तदन्तविधिः ।


इत्येतत्पर्यन्तमनुवर्त त इति केचिदिति वृत्तिकृतः । उत्तरपदस्य ॥ अधिकारोऽयः मिति । सप्तमे आदिवृद्विप्रकरणे एतदादिसूत्राणि । अवयवादृतोः ॥ पूर्वपदादिति ॥ परस्येति शेषः। ऋतुवाचिन इति । उत्तरपदस्येति शेषः। पूर्ववार्षिक इति ॥ ऋतुविशिष्टे वर्षाशब्दो नित्यत्रीलिङ्गो बहुवचनान्तः । वर्षाणाम्पूर्वं पूर्ववर्षाः, तत्र जाता इत्यर्थः । 'पूर्वापरा धरोत्तरम्' इत्येकदेशिसमासः । अपरहैमन इति ॥ हेमन्तस्यापरम् अपरहेमन्तः । तत्र जातादिरित्यर्थः । एकदेशिसमासः । ‘सर्वत्राण्च तलोपश्च' इत्यण्, तलोपश्च, उत्तरपदादिवृद्धिः । पूर्वासु वर्षास्विति ॥ 'तद्धितार्थे' इति समासः । आदिवृद्धिरेव । न तु उत्तरपदादि वृद्धिः । पूर्वपदस्य अवयववृत्तित्वाभावात् । ननु कथमिह 'वर्षाभ्यष्टक्’ इति ठक् । प्रत्यविधौ तदन्तविधिप्रतिषेधात् । तत्राह । ऋतोरिति ॥ अवयववाचकानां शब्दानामुपरि स्थितात् ऋतुवाचकात् वृद्धिनिमित्तकप्रत्ययविधाने कर्तव्ये तदन्तविधिर्वाच्य इत्यर्थकेन “येन विधिः इति सूत्रभाष्यस्थितवचनेन पूर्वत्र पूर्वमुदाहृते उदाहरणे तदन्तविधिरित्यर्थः । तथाच पूर्ववार्षिकः इत्यत्र पूर्वहैमन इत्यत्र चोदाहरणे ‘वर्षाभ्यष्ठक्’ इति ठक्, ‘सर्वत्राण् च तलोपश्च' इत्यण्तलोपौ च सिद्यन्ति । इह तु नेति । प्रत्युदाहरणे तु तदन्तविधिर्नास्ति । पूर्वासु वर्षास्विति सामा नाधिकरण्येन पूर्वशब्दस्य अवयववृत्तित्वाभावादित्यर्थः । ततश्च प्रत्युदाहरणे पौर्ववार्षिक इत्यत्र कालाट्ठञ्' इति ठञेव, नतु ठक्, स्वरे विशेषः । पौर्वहेमन्तिक इत्यत्रापि ठञेवेति भावः । सु सर्वार्धाज्जनपदस्य ॥ सु, सर्व, अर्ध, इत्येतत्पूर्वस्य जनपदवाचिन इत्यर्थः । उत्तरपदस्य वृद्धिरिति ॥ शेषपूरणम् । सुपाञ्चालक इति ॥ सुपञ्चालेषु जात इत्यर्थः । जनपदेति ॥ जनपदतदवध्योः' इत्यनुवृत्तौ अवृद्धादपि बहुवचनविषयादिति वुञित्यर्थः । ननु “ अवृद्धादपि इति प्रत्ययविधौ कथं तदन्तविधिरित्यत आह । सुसर्वेति ॥ सु, सर्व, अर्ध, दिक्शब्द