पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७५८
[शैषिक
सिद्धान्तकौमुदीसहिता

(वा २८४२) । चिरन्नम् । परुन्नम् । परारित्रम् । “अग्रादिपश्वाड्डिमच् (वा २८४४) । अग्रिमम् । आदिमम् । पश्चिमम् । “अन्ताच' (वा २८४५) । अन्तिमम् ।

१३९२ । विभाषा पूर्वाह्णापराह्णाभ्याम् । (४-३-२४)

आभ्यां टयुटयुलौ वा स्तः, तयास्तुट् च । पक्षे ठञ् । पूर्वाह्णेतनम् । अपराह्णेतनम् । “घकालतनेषु–' (सू १९७५) इत्यलुक् । पूर्वाह्णः सोढोऽस्येति विग्रहे तु पूर्वाह्णतनम् । अपराह्णतनम् । पौर्वाह्णिकम् । आपराह्णिकम् ।

१३९३ । तत्र जातः । (४-३-२५)

सप्तमीसमर्थाज्जात इत्यर्थेऽणादयो घादयश्च स्युः । स्त्रुघ्ने जातः स्रौघ्नः । औत्सः । राष्ट्रियः । अवारपारिणः इत्यादि ।

१३९४ । प्रावृषष्ठप् । (४-३-२६)

एण्यस्यापवादः । प्रावृषि जातः प्रावृषिकः ।

१३९५ । संज्ञायां शरदो वुञ् । (४-३-२७)

ऋत्वणोऽपवादः । शारदकाः दर्भविशेषा: मुद्रविशेषाश्च ।


प्रगच्छतीति प्रगः, तस्मिन् जातादिरित्यर्थः । यत्तु प्रगे इत्यव्ययमेदन्तम्प्रातरित्यर्थे, तस्य त्वव्ययत्वादेव सिद्धम् । अव्ययेभ्यः उदाहरति । दोषातनमिति ॥ दोषेत्याकारान्तमव्ययं रात्रौ। दिवातनमिति ॥ दिवेत्याकारान्तमव्ययमह्नि । चिरपरुदिति ॥ चिर, परुत् , परारि एभ्यः नप्रत्यय इत्यर्थः । चिरत्नमिति ॥ ट्युटयुलोरेव प्राप्तयोर्वचनम् । त्नप्रत्ययपक्षे मान्तत्वन भवति । ट्युटयुल्भ्यान्तस्य सन्नियोगशिष्टत्वात् । परुदिति परारीति चाव्यय पूर्वस्मिन् पूर्वतरे च वत्सरे क्रमाद्वर्तते । अग्रादीति ॥ वार्तिकमिदम् । अग्र, आदि, पश्चात् , एभ्यः डिमच् स्यादित्यर्थः। पश्चिममिति ॥ 'अव्ययानाम्भमात्रे' इति टिलोपः । अन्ताच्च ॥ इदमपि वार्तिकम् । विभाषा पूर्वाह्ण ॥ पक्षे ठञिति ॥ तथा सति न तुट् । तस्य ट्युटयुल्भ्यां सत्रियोगशिष्टत्वादिति भावः । तदेव 'राष्ट्रावार' इत्यारभ्य एतदन्तैः सूत्रैः राष्ट्रादि- प्रकृतिविशेषेभ्यः घादयः प्रत्ययविशेषाः अनुक्रान्ताः। अथ तेषाम्प्रत्ययानामर्थविशेषान् प्रकृ- तीनाञ्च विभक्तिविशेषान् दर्शयितुमुपक्रमते । तत्र जातः ॥ सप्तमीसमर्थादिति ॥ सप्तम्यन्तात्कृतसन्धेरित्यर्थः। तत्रेत्यनेन सप्तम्यन्तस्यैव प्रथमानिर्दिष्टत्वादिति भावः । अणा- दय इति ॥ अपत्यादिविकारान्तार्थसाधारणा इत्यर्थः । घादय इति ॥ 'राष्ट्रावारपार' इत्यादिभिः विशेषविहिता इत्यर्थः । प्रावृषष्ठप् ॥ ठपः पित्त्वम् ‘अनुदात्तौ सुप्पितौ' इति स्वरार्थम् । एण्यस्येति ॥ 'प्रावृष एण्यः' इति विहितस्येत्यर्थः । एवञ्च 'प्रावृष एण्यः' इति सूत्रञ्जातादन्यार्थमिति पर्यवस्यति । संज्ञायां शरदो वुञ् ॥ सज्ञायामित्येतत् ‘कृतलब्धक्रीत'