पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६६२
[समासाश्रयविधि
सिद्धान्तकौमुदीसहिता

१०७१ । पारस्करप्रभृतीनि च संज्ञायाम् । (६-१-१५७)

एतानि ससुट्कानि निपात्यन्ते नान्मि । पारस्करः । किष्किन्धा । “तद्वृ हतोः करपत्योश्चोरदेवतयोः सुट् तलोपश्च' (वा ३७१३) । तात्पूर्वं चर्त्वेन दकारो बोध्यः । तद्वृहतोर्दकारतकारौ लुप्येते । करपत्योस्तु सुट् । *चोरदेव तयोः' इति समुदायोपाधिः । तस्करः । बृहस्पति । * प्रायस्य चित्तिचित्तयोः' (वा ३७१४) । प्रायश्चित्ति : । प्रायश्चित्तम् । वनस्पतिरित्यादि । आकृति गणोऽयम् ।

इति समासाश्रयविधिप्रकरणम् ।


विग्रह । “कृञो हेतुताच्छील्ये' इति टः । पारस्करप्रभृतीनि च ॥ पारस्कर इति । पारङ्करोतीति विग्रहः । पूर्ववट्टः । किष्किन्धेति ॥ किमपि वानरसैन्यन्धत्ते इति किष्किन्धा । ‘आतोऽनुपसर्गे कः '। टाप्, निपातनात् किमो द्वित्वम् । मलोपः, सुट्, षत्वञ्च । रूढशब्दा एते कथञ्चिद्वयुत्पाद्यन्ते । एषामवयवार्थो न विचारणीयः । तद्वृहतोरिति ॥ पारस्करादिगणसूत्र मेतत् । तत्शब्दे तकारस्यान्यस्याभावात् आह । तात्पूर्वमिति ॥ तलोपश्चेत्यत्र तकारात्पूर्व मित्यर्थः । तत् चौर्यङ्करोतीति विग्रहः । 'कृञो हेतुताच्छित्ये' इति टः । बृहस्पतिरिति ॥ बृहती वाक् तस्याः पतिः इति विग्रहः । पुंवत्वम्, तलोपः, सुट्, “वाध्घि बृहती तस्या एषः पतिः” इति च्छन्दोगब्राह्मणम् । प्रायस्य चित्तिचित्तयोः इति ॥ गणसूत्रमिदम् । प्रायस्य चितिः वित्तं वेति विग्रहः । “प्रायम्पापं विजानीयाच्चित्तन्तस्य विशोधनम्” इति स्मृति । वनस्पतिरिति ॥ वनस्य पतिरिति विग्रहः । आकृतिगणोऽयमिति ॥ तेन शतात्पराणि परश्शतानीत्यादि सिद्धम् । इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां समासाश्रयविधिप्रकरणं समाप्तम् ।