पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५२४
[नञतत्पुरुष
सिद्धान्तकौमुदीसहिता

अदुतायामसंहितम्' (वा ११६७) इति च भाष्यवार्तिकप्रयोगात् । तेन अनुपलब्धिः, अविवादः, अविघ्नम्’, इत्यादि सिद्धम् । “ नञो नलोपस्तिङिक्षेपे' (वा ३९८४) । अपचसि त्वं जाल्म । 'नैकधा' इत्यादौ तु नशब्देन 'सह सुपा' (सू ६४९) इति समासः ।

७५९ । नभ्राण्नपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्रनाकेषु प्रकृत्या । (६-३-७५)

' पाद् ' इति शत्रन्तः । 'वेदाः' इत्यसुन्नन्तः । न सत्या असत्याः । न असत्या नासत्याः । न मुञ्चतीति नमुचिः । न कुलमस्य । न खमस्य । न स्री पुमान् । स्त्रीपुंसयोः पुंसकभावो निपातनात् । न क्षरतीति नक्षत्रम् । क्षीयते: क्षरतेर्वा क्षत्रमिति निपात्यते । न क्रामतीति नक्रः । 'क्रमेर्ड:' न अकमस्मिन्निति नाकः ।

७६० । नगोऽप्राणिष्वन्यतरस्याम् । (६-३-७७)

नग इत्यत्र नञ्प्रकृत्या वा । नगाः—अगाः पर्वताः । 'अप्राणिषु' इति किम् । अगो वृषलः शीतेन । “नित्यं क्रीडा-' (सू ७११) इत्यतः 'नित्यम् इत्यनुवर्तमाने


विज्ञायते । अव्ययीभावे रक्षोहागमलध्वसन्देहमिति स्यात् । अद्रुतायामसंहितमिति ॥ ‘परस्सन्निकर्षस्संहिता' इति सूत्रे पठितमिदं वार्तिकम् । अद्रुतायां वृत्तौ संहिताभाव इत्यर्थः । अत्र अव्ययीभावे सति असहितमिति प्रयोगात् अव्ययीभावेऽपि अर्थाभावो नञा गम्यो भवतीति विज्ञायते । अन्यथा तत्पुरुषे सति परवल्लिङ्गत्वादसंहितेति स्यात् । ततश्व नञा गम्ये अभावे तत्पुरुषाव्ययीभावयोर्विकल्प इति स्थितम् । तेनेति ॥ अनुपलब्धिरित्यत्र अविवाद इत्यत्र च तत्पुरुषः । अविघ्नम् इत्यत्र अव्ययीभावश्च सिध्द्यतीत्यर्थः । शब्देन्दुशेखरे तु अन्यथा प्रपञ्चितम् । नञो नलोपस्तिङि क्षेपे इति ॥ 'नलोपो नञः’ इति सूत्रस्थवार्तिकमिदम् । नञ् नकारस्य लोपस्यात् तिङि परे निन्दायामिति वक्तव्यमित्यर्थः । अ पचसि त्वं जाल्मेति ॥ कुत्सित पचसीत्यर्थः । अत्र अ इति भिन्नं पदं तिङन्तेन समासाभावाद्वार्तिकमिदं प्रसङ्गादुपन्यस्तम् । नञ्समानार्थकेन अ इत्यव्ययेनापि सिद्धमिदमिति वार्तिकं विफलमेव। केचित्तु अस्मादेव बार्तिकादव्ययेषु अ इत्यस्य पाठः अप्रामाणिक इत्याहुः । ननु नैकधेत्यत्रापि नञ्समासे 'नलोपा नञः’ इति नकारस्य लोपे “तस्मान्नुडचि' इति नुटि अनेकधेत्येव स्यादित्यत आह । नैकधेत्यादौ त्विति ॥ एतदर्थमेव 'नञ्' इति सूत्रे 'नलोपो नञः’ इति सूत्रे च अकारनुबन्धग्रहणमिति भावः । नभ्राण्नपात् ॥ सुगमम् । अनुवर्तमाने इति ॥