पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०४
कारके द्वितीया
सिद्धान्तकौमुदीसहिता

दुह्याच्पच्दण्ड्रूधिप्रच्छिचिबूशासुजिमथ्मुषाम् । कर्मयुक्स्याद्कथितं तथा स्यान्नीह्रकृष्वहाम् । 'दुहादीनां द्वादशानां तथा नीप्रभृतीनां चतुर्णा कर्मणा यद्युज्यते तदेवाकथितं कर्म' इति परिगणनं कर्तव्यमित्यर्थः । गां दोग्धि पयः । बलिं याचते


करणं कर्म करणं कर्ता हेतुः इति कारकसप्तकम् । तदेतद्यदा अपादानत्वादिविशेषात्मना न विव क्षितं किन्तु सम्बन्धसामान्यात्मनैव तदा तत्कर्मसंज्ञकमित्यर्थः । ननु 'नटस्य श्रृणोति गाधाम् इत्यत्र गाधाकर्मकं नटसम्बन्धि श्रवणमित्यर्थकेन नटस्यापि कर्मत्वं स्यात् । तस्य क्रियान्वयि त्वेन कारकत्वात् । वस्तुतः अपादानस्य सम्बन्धत्वेन विवक्षितत्वाच्चेत्याशङ्कय परिगणयति । दुह्याजिति ॥ वार्तिकार्थसङ्ग्रहश्लोकोऽयम् । अतो व्याचष्टे । दुहादीनामिति ॥ दुह प्रपूरणे, टु याचृ याच्ञ्जायाम्, डु पचष् पाके, दण्ड दण्डनिपातने । चुरादिः निग्रह इत्यर्थः । इह ग्रहणार्थकः । रुधिर् आवरणे, प्रच्छ इप्सिायाम् । श्लोके प्रच्छीत्यत्रेकार उच्चारणार्थः। इका निर्देशे तु “ग्रहिज्या' इति सम्प्रसारणप्रसङ्गात् । चिञ् चयने, बूञ् व्यक्तायां वाचि, शासु अनुशिष्टौ, जि अभिभवे, मन्थ विलोडने, मुष स्तेये, इति द्वादशानामित्यर्थः। चतुर्णामिति ॥ णीञ् प्रापणे, ह्यञ् हरणे, कृष विलेखने, दह प्रापणे, इतेि चतुर्णामित्यर्थः । कर्मणा यद्युज्यते इति ॥ कर्मयुगित्यस्य व्याख्यानमिदम् । करणे उपपदे कर्मणि वाच्ये 'सत्सूद्विष' इत्यादिना क्विबिति भावः । यद्यपि “दुहियाचिरुधिप्रच्छिभिक्षिचिञामुपयोगनिमित्ततमपूर्वविधौ । बुवि शासिगुणेन च यत् स च ते तदकीर्तितमाचरितं कविना ” इति प्रकृतसूत्रस्थश्लोकवार्तिके पचिमथिमुष्यादयो न पठिताः । तथापि चकारेण तेऽपि सङ्गाह्या इति कैयटः । गां दोधि पयः इति ॥ क्षरणानुकूलव्यापारः क्षारणपर्यायो दुहेरर्थः । क्षारणात्मकव्यापारप्रयोज्यक्षरणा त्मकफलाश्रयात्पयः कर्म । गौस्तु क्षरणे अपादानम् । तदपादानत्वमुपेक्ष्य सम्बन्धत्वात्मना गोर्विवक्षायां कर्मत्वमनेन भवति । ततश्च शेषषष्ठीनिरासे द्वितीया भवति । तादिदमुक्त प्रौढ मनोरमायाम् । गोसम्बन्धि पयःकर्मकन्दोहनमर्थ इति । तथाच न माषाणामश्रीयादित्यत्रेव शेषत्वविवक्षायां प्राप्तां षष्ठीं बाधितुमिदं सूत्रम् । गोरपादानत्वविवक्षायान्तु पञ्चम्येव, गोः पयो दोग्धीति । गोसकाशात् पयः क्षारयतीत्यर्थः । यदि तु गौः पयोविशेषणं तदा षष्ठयेव । गोसम्बन्धि यत्पयः तत् क्षारयतीत्यर्थः । एवमग्रेऽप्यूह्यामिति प्राचीनमतानुसारी पन्थाः । वस्तु तस्तु अपादानत्वादिविशेषरूपेणाविवक्षितं किन्तु कर्मत्वेनैव विवक्षितम् अकथितम् । तादृश मपादानादि कर्मसंज्ञकं स्यादित्यर्थः । कारकत्वव्याप्यसंज्ञानां स्वबोध्ये कर्मत्वादिशक्तिमत्त्वबोध कत्वात् बोधोऽपि तथैव । एवञ्च गान्दोग्धि पयः इत्यत्र गोकर्मकं पयःकर्मकञ्च दोहनमित्येव बोधः । अवधेस्सकाशाद्रवद्रव्यविभागो हि क्षरणम् । तच्च गोपनिष्ठव्यापारप्रयोज्यम् । एवञ्च कर्तृव्यापारप्रयोज्यक्षरणात्मकविभागविशेषाश्रयत्वात् गोः पयसश्च पूर्वसूत्राभ्यां कर्मत्वमस्त्येव । अतः उभयकर्मकबोध एव युक्तः, नतु सम्बन्धत्वेन गोर्बोधः । अत एव प्रकृतसूत्रभाष्ये


१ इदं च १०९०. ११०० वार्तिकादिसिद्धम्