पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
विभक्तिप्रकरणम्]
४०३
बालमनोरमा ।

५३८ । तथायुक्त चानीप्सितम् । (१-४-५०)

ईप्सिततमवत्क्रियया युक्तमनीप्सितमपि कारकं कर्मसंज्ञ स्यात् । ग्रामं गच्छंस्तृणं स्पृशति । ओदनं भुञ्जानो विषं भुङ्क्ते ।

५३९ । अकथितं च । (१-४-५१)

अपादानादिविशेषेरविवक्षितं कारकं कर्मसंज्ञे स्यात् ।


स्यात् । एवञ्चानभिहिताधिकारो व्यर्थ इति चेन्मैवम् । “कर्मणि द्वितीया' इत्यादीनां * चकयो र्द्विवचनैकवचने' 'बहुषु बहुवचनम्' इत्यनयोश्च एकवाक्यतया कर्मणि यदेकत्वं द्वित्वं बहुत्वं वा तत्र एकद्विबहुवचनानीति लभ्यते । तत्र “अनभिहिते' इत्यारम्भे अनभिहिते कर्मणि यदेकत्वं तत्र द्वितीयेत्येवमर्थस्यात् । “ अनभिहिते' इत्यभावे तु कर्मणि यदेकत्वन्तत्र द्वितीयैक वचनामित्येव पर्यवस्येत् । तथा सति कृतः कट इत्यादौ क्तेन कर्ममात्रोक्तावपि तदेकत्वस्यानुक्त तया द्वितीयैकवचनन्दुर्वारं स्यात् । नच प्रथमाया निरवकाशत्वं शङ्कयम् । नीलमिदन्नतु रक्त मित्यादौ विशेषणान्तरनिवृत्तितात्पर्यके अस्तिक्रियायाः अनावश्यकत्वेन तत्र प्रथमायास्सावका शत्वात् । नापि तत्र परत्वात् प्रथमैव भविष्यतीति वाच्यम् । कर्तव्यः कट इत्यादौ ततोऽपि परत्वेन कृद्योगलक्षणषष्ठीप्रसङ्गात् । एवञ्च सङ्गया विभक्तयर्थ इति पक्षे “ अनभिहिते' इत्या रब्धव्यम् । यदि तु पञ्चकं प्रातिपदिकार्थः इत्यनाश्रित्य कारकं विभक्तयर्थ इत्याश्रीयते तदा कारकस्य त्क्तप्रत्ययादिनोक्तत्वान्न द्वितीयादिविभक्तिप्रसक्तिः । एकत्वादिसङ्खयाबोधश्च प्राति पदिकार्थमात्रे प्रवृत्तया प्रथमयैव सम्भवति । अतः * अनभिहिते’ इति नारब्धव्यमिति भाष्य कैयटकौस्तुभादिषु स्पष्टम् । अतिविस्तरस्तु मञ्जूषायामनुसन्धेयः तथायुक्तञ्चानीप्सितम्॥ तथाशब्दस्य सादृश्यवाचकस्य प्रतियोगिसापेक्षत्वादाह । ईप्सिततमवदिति ॥ पूर्वसूत्रे सन्निहितत्वादीप्सिततममेव सादृश्यप्रतियोगीति भावः । क्रिययेति ॥ क्रियाजन्यफलयुक्त मित्यर्थः । पूर्वसूत्रे ईप्सिततमस्य कर्मत्वमुक्तम् । द्वेष्योपेक्ष्यसङ्गहार्थमिदं वचनम् । तत्र उपेक्ष्य मुदाहरति । ग्रामं गच्छंस्तृणं स्पृशतीति ॥ संयेोगानुकूलव्यापारः स्पृशेरर्थः । अत्र स्पृश्यमानस्य तृणस्य ईप्सिततमत्वाभावेऽपि गङ्गां स्पृशतीत्यादौ स्पृश्यमानस्येप्सिततमस्य गङ्गादेरिव क्रियाजन्यसंयोगात्मकफलाश्रयत्वात्कर्मत्वमिति भावः । द्वेष्यमुदाहरति । विषं भुङ्क्त इति । यदा कश्चिद्वलवता वैरिणा निगृह्यमाणो विषं भुङ्क्ते तदेदमुदाहरणम् । भुजेर्हिं मुखे प्रक्षिप्तस्य गळविवरप्रवेशानुकूलः हनुचलनादिव्यापारोऽर्थः । विषस्य द्वेष्यतया ईप्सिततम त्वाभावेऽपि ओदनं भुङ्क्ते इत्यादौ मुज्यमानस्य ईप्सिततमस्य ओदनादेरिव क्रियाजन्यगळ विवरप्रवेशात्मकफलाश्रयत्वात् कर्मत्वमिति भावः । नच “धातूपस्थाप्यफलशालि कर्म' इत्ये वास्तु, किमीप्सितानीप्सितयोः पृथक् ग्रहणेनेति वाच्यम् । अग्नेर्माणवकं वारयतीत्यत्र हि “वार णार्थानामीप्सितः’ इति माणवकस्यापादानत्वं प्राप्तं तन्निवृत्त्यर्थं 'कर्तुरीप्सिततमम्’ इति वक्तव्य मेव । एवञ्च द्वेष्योदासीनसङ्गहार्थ 'तथायुक्तश्च' इति सूत्रमावश्यकमित्यास्तान्तावत् । अकथि तञ्च ॥ अकथितशब्दं व्याचष्टे । अपादानादिविशेषैरिति ॥ अपादानं सम्प्रदानम् अधि