पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९२
[स्त्रीप्रत्यय
सिद्धान्तकौमुदीसहिता

नामुपसङ्ख-यानम्’ (वा २५०२) । रज्ज्वादिपर्युदासादुवर्णान्तेभ्य एव । अलाब्वा । कर्कन्ध्वा । अनयोर्दीर्घान्तत्वेऽपि * नोङ्धात्वोः' (सू ३७२१) इति विभक्त्युदात्तत्वप्रतिषेध ऊङः फलम् । प्राणिजातेस्तु कृकवाकुः । रज्ज्वादेस्तुः रञजुः। हनुः ।

५२२ । बाह्वन्तात्संज्ञायाम् । (४-१-६७)

स्त्रियामूङ् स्यात् । भद्रबाहूः । “ संज्ञायाम्' किम् । वृत्तबाहुः ।

५२३ । पङ्गोश्च । (४-१-६८)

पङ्गूः । 'श्वशुरस्योकाराकारलोपश्च' (वा ५०३९) । चादूङ् ।


वाचकानामिति शेष रज्ज्वादिभिन्नानामप्राणिजातिवाचकानामपि डीष् उपसङ्खयानमित्यर्थः। नन्वत्र उत इति सम्बध्द्यते वा न वा, नाद्यः, अलाबूरिति भाष्योदाहरणविरोधात् । अलाबू शब्दस्य ऊदन्तत्वात् । न द्वितीयः, अदन्तादपि अप्राणिजातिवाचिनः ऊडापत्तेरित्यत आह । रज्ज्वादिपर्युदासादिति ॥ उत इति न सम्बध्द्यते । अदन्तेषु नातिप्रसङ्गः 'नञिवयुक्त मन्यसदृशाधिकरणे तथाह्यर्थगतिः' इति न्यायेन रज्ज्वादिसदृशानामुवर्णान्तानामेव ग्रहणादिति भावः । अलाब्वेति ॥ अलाबूशब्दादूडि सवर्णदीघे अलाबूशब्दात् ऊङन्तात् सुबुत्पत्तिः । डयि यणादेशे अलाव्वै इति रूपम् । एवं कर्कन्धूशब्दादृङन्तात् डयि कर्कन्ध्वै इति रूपम् । कर्कन्धूर्बदरी” इत्यमरः । “तुम्व्यलावूरुभे समे” इति च । ननु ऊदन्तत्वादनयोरूङिवधि र्व्यर्थ इत्यत आह । अनयोरिति ॥ कृकवाकुरिति ॥ पक्षिजातिविशेष । अत्र मनुष्य जातित्वाभावात् पूर्वेणापि न डीष् । बाह्वन्तात्संज्ञायाम् ॥ ऊडुत इत्यतः ऊडित्यनुवर्तते स्त्रियामित्यधिकृतम्, प्रातिपदिकादिति च । तदाह । स्त्रियामूङ् स्यादिति ॥ भद्रबाहू रिति । कस्याश्चित्संज्ञा । संज्ञायां किमिति ॥ संज्ञायामित्येतत् किमर्थमिति प्रश्नः । वृत्तबाहुरिति । वृत्तौ बाहू यस्याः इति विग्रहः । स्त्रियामपि नोड् । पङ्गोश्च ॥ ऊडिति सूत्रशेषः । भग्नपादत्वं पङ्गुत्वं न जातिः । आसीने शयाने च आकृत्या दुर्ग्रहत्वात् एकस्यां व्यक्तौ विकलपादोऽयं पङ्गुरिति पङ्गुत्वस्योपदेशेऽपि व्यक्तयन्तरेषु आसनशयनाद्यवस्थेषु तस्य दुर्ग्रहत्वात्, गोत्रचरणानन्तर्भावाच्च । ततश्च 'ऊडुतः' इत्यप्राप्तौ वचनमिदम् । श्वशु रस्येति॥ वृत्त्यादौ पठितमिदम् । चकारात् ऊडनुकृष्यते । श्वशुरस्य स्री इत्यर्थे पुंयोगलक्षणे डीषि प्राप्ते तदपवादः ऊड्, तत्सन्नियोगेन रेफादकारस्य उकारस्य लोपश्चेत्यर्थः । नच वकारा दकारस्य लोपश्शङ्कयः । अन्त्यबाधेऽन्त्यसदेशस्य' इति वचनात् । “यस्येति च' इति तु


१ इदं च “श्वशुरः श्वश्वा' (१-२-७१) इति निर्देशसिद्धमिति भावः । “डयाप् --' (४-१-१) इति सूत्रस्थस्य 'उवर्णान्तादूङ् विधीयते । तत्रैकादेशः । एकादेशे कृतेऽन्तादिवद्भावात्प्रातिपदिकसंज्ञा भविष्यति' इति भाष्यस्य स्वरसस्तु 'जत्रादित्वान्निष्पन्नादूङ् दीर्घोकारान्त एव वा कर्तव्यः' इत्येव लभ्यते ।