५१९ । पाककर्णपर्णपुष्पफलमूलवालोत्तरपदाच्च । (४-१-६४)
पाकाद्युत्तरपदाज्जातिवाचिनः स्रीविषयादपि डीष्स्यात् । ओदनपाकी । शङ्कुकर्णी । शालपर्णी । शङ्खपुष्पी । दासीफली। दर्भमूली । गोवाली। ओषधिविशेषे रूढा एते ।
५२० । इतो मनुष्यजातेः । (४-१-६५)
डीष्स्यात् । दाक्षी । योपधादपि । उदमेयस्यापत्यं स्त्री औदमेयी । मनुष्य-' इति किम् । तित्तिरिः ।
५२१ । ऊडुतः । (४-१-६६)
उकारान्ताद्योपधान्मनुष्यजातिवाचिनः स्त्रियामूड् स्यात् । कुरूः । कुरुनादिभ्यो ण्यः' (सू ११९०) । तस्य “स्त्रियामवन्ति-' (सू ११९५) इत्यादिना लुक् । अयापधात् किम् । अध्वयु : । “ अप्राणिजातेश्चारज्ज्वादी-
तारः । पाककर्ण ॥ 'जातेतरस्त्रीविषयात्' इति पूर्वसूत्रेणैव सिद्धे किमर्थमित्यत आह ॥ स्त्रीविषयादपीति । नियतस्त्रीलिङ्गादपीत्यर्थ । नियतस्त्रीलिङ्गत्वात् जातिवाचित्वन्दर्शयितु माह। ओषधिविशेषे रूढाः इति ॥ अवयवव्युत्पत्तिरहिता इत्यर्थः। इतो मनुष्यजातेः ॥ शेषपूरणेन सूत्रं व्याचष्टे । डीषु स्यादिति ॥ इदन्तान्मनुष्यजातिवाचिन स्त्रियां ङीष्स्त्यादि त्यर्थः । स्त्रीप्रत्ययविधिषु अत इत्यनुवृत्तेरिदन्तात् “जातेरस्त्रीविषयात्' इत्यप्राप्तौ वचनम् । दाक्षीति ॥ दक्षस्यापत्यं स्त्री इत्यर्थे अत इञि अल्लोपः, आदिवृद्धिः, डीष्, “यस्येति च' इति इकारलोपः । 'गोत्रञ्च चरणैस्सह' इति जातिवाचित्वम्, दक्षः प्रजापतिविशेषः । योपधा दपीति ॥ अयं डीषिति शेषः । पुनर्जातिग्रहणेन योपधग्रहणस्य अनुवृत्त्यभावबोधनादिति भावः । औदमेयीति ॥ उदमेयो नाम कश्चित्, तस्यापत्यं स्त्री इत्यर्थे अत इञ् । यस्येति च' इत्यल्लोपः । आदिवृद्धिः । औदमेयिशब्दात् डीष्, “यस्येति च' इति इकारलोपः । तित्तिरिरिति ॥ तित्तिरिः पक्षिजातिविशेषः । स्त्रियां ङीष् न । अमनुष्य जातिवाचित्वादिति भावः । ‘स्त्रीपुंसयोरपत्यान्तः द्विचतुष्षट्पदा अपि' इत्यमरकोशादयं स्त्रियामपि भवति, द्विपात्त्वात् । ऊडुतः ॥ अयोपधादिति मनुष्यजातेरिति चानुवर्तते, उत इति तद्विशेषणम्, तदन्तविधिः । तदाह। उकारान्तादित्यादिना ॥ कुरुरिति ॥ कुरुक्षेत्र स्य राजा कुरुः, तस्यापत्यं स्त्रीत्यर्थः । “गोत्रञ्च चरणैस्सह' इति जातित्वम् । कुरुशब्दात् ऊङी सवर्णदीर्घः । ऊङी दीघचारणस्य प्रयोजनं भाष्ये स्पष्टम् । “तस्यापत्यम्’ इत्यणमाशङ्कय आह । कुरुनादिभ्यो ण्यः इति ॥ अपत्याधिकारस्थमिदं सूत्रम् । अनेन सूत्रेण अणप वादो इत्यर्थः तर्हि श्रूयेतेत्यत आह । तस्येति । अध्वर्युरिति । अध्वर्यु ण्यप्रत्यय । स शाखाध्द्यायिनीत्यर्थः । चरणत्वातू जातित्वम् । “पुरा युगेषु नारीणां मौञ्जीबन्धनामिष्यते । अध्द्यापनञ्च वेदानां सावित्रीवचनं तथा ॥” इति यमादिस्मृतिः । अप्राणिजातेश्चेति ॥