पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७८
[स्त्रीप्रत्यय
सिद्धान्तकौमुदीसहिता

चाब्वाच्यः' (वा २४७१) । सूर्यस्य स्त्री देवता सूर्या । “ देवतायाम् ' किम् । सूरी कुन्ती । मानुषीयम् ।


इति पूर्वसूत्रे तु “गुणवचनात् डीषाद्युदात्तार्थम्' इति वार्तिकात् डीषु लब्ध इति न तत्रास्यानु वृत्तिः । गोपस्य स्त्रीति । गाः पातीति गोपः, “आतोऽनुपसर्गे कः' तज्जायायान्तु गोरक्षणा भावेऽपि तद्भार्यात्वात् तद्वयपदेशः । ततश्च पुंयोगमाश्रित्य लक्षणया स्त्रियां वर्तमानत्वात् डीषि यस्येति च' इत्यकारलोपः इति भावः । हरेः स्त्री, शम्भोः स्त्री, इत्यादौ न डीष्। स्त्रीप्रत्यय विधिप्रकरणे अतः इत्यनुवृत्तेः । या तु स्वयमेव गाः पाति, नतु गोपस्य स्त्री, सा तु गोपा । तत्र गोपशब्दस्य स्वत एव स्त्रियां वृत्त्या पुंयोगादवृत्तेः । नच गोपस्य माता श्वश्रूः मातुलानी वा गोपीति स्यादिति वाच्यम्। अकुर्वती पापं भर्तृकृतान् वधबन्धादीन् यथा लभते एवं तच्छब्द मपीति भाष्यस्वारस्येन जायापत्यात्मकस्यैव पुंयोगस्य विवक्षितत्वात् । दुहितरि केकयी, देवकी इत्यादयस्तु गौरादौ पाठ्या इति शब्देन्दुशेखरे स्थितम् । आख्याग्रहणं किम् । प्रसूता । अयं हिशब्दो जातप्रसवाम हि । स च प्रसवः पुंयोगानिमित्तक तन्निमित्ता चास्य स्त्रियां वृत्तिः, न त्वयं पुंसि प्रसिद्धः, अतो न डीष्, अत्र ‘गोपालकादीनां प्रतिषेधः' इति वार्तिकम् । अत्र आदिपदेन अश्वपालिकेत्यादयः पालकान्ता एव गृह्यन्ते । भाष्ये तेषामेवोदाहरणात् । तदाह । पालकान्तान्नेति ॥ पुंयोगलक्षणडीषिति शेषः । गोपालिकेति ॥ गोपालकस्य स्त्रीत्यर्थः । ननु पालयतीति पालकः, कर्तरि ण्वुल्, 'युवोरनाकौ' इत्यकादेशः । ‘णेरनिटि' इति णिलोपः। गवां पालकः इति विग्रहे षष्ठीसमासे सुपो लुकि गोपालकशब्दः । तत्र किं शेषषष्ठी उत “कर्तृकर्मणोः कृति' इति कर्मणि षष्ठी । न तावदाद्यः । प्रत्ययलक्षणमाश्रित्य टाप स्समासावयवात् पालकशब्दात् उत्पन्नसुपः परत्वेन असुप इति निषेधात् 'प्रत्ययस्थात्' इति इत्वानुपपत्तेः । नचास्तु कर्मणि षष्ठीति द्वितीयः पक्षः । “गतिकारकोपपदानां कृद्भिस्सह समास वचनं प्राक्सुबुत्पत्तेः’ इति वचनेन सुबुत्पत्तेः प्रागेव पालकशब्देन प्रातिपदिकेन गवामिति षष्ठया स्समासे सति समासात् उत्पन्नस्य टापस्सुपः परत्वाभावेन इत्वस्य निर्बाधत्वादिति वाच्यम् । तृजकाभ्यां कर्तरि ' इति “कृद्योगलक्षणा षष्ठी न समस्यते' इति कारकषष्ठयास्समासनिषेधात् इति चेत् । मैवम् । गाः पालयतीति गोपालः । कर्मण्यण् । उपपदसमासः । गापाल एव गोपालकः, स्वार्थिकः कः । तद्धितावयवत्वात् सुब्लुक्। गोपालकस्य स्त्री गोपालिकेति व्युत्पत्त्या श्रयणात् । नह्यत्र टाप् सुपः परः, केन व्यवधानात् । अस्तु वा शेषष्ठया समासः । एवमपि न टाप् सुपः परः, शेषत्वविवक्षायामपि वस्तुतः कारकतया सुबुत्पत्तेः प्रागेव शेषषष्ठयास्समासप्रवृत्तेः। अत एव प्रकृतसूत्रे 'उपपदमतिङ्’ इति सूत्रे च भाष्ये “कुम्भकारपदे सुबुत्पत्तेः प्रागेव कुम्भस्येति शेषष्ठ्यासमासःउपन्यस्तस्सङ्गच्छते इति शब्देन्दुशेखरे प्रपञ्चितम् । सूर्या द्देवतायामिति ॥ देवताभूतायां स्त्रियां पुंयोगाद्वर्तमानात् सूर्यशब्दात् चाप् वक्तव्यः इत्यर्थः । पुंयोगात्’ इति डीषोऽपवादः । चपावितौ । सूर्येति ॥ चापि सवर्णदीर्घः । देवतायां किमिति ॥ सूर्यस्त्रियां देवतात्वाव्यभिचारात् प्रश्रः । सूरी कुन्तीति ॥ डीषि 'सूर्यतिष्य इति यकारलोपः, 'यस्येति च' इत्यकारलोपः । मानुषीयमिति ॥ इयं कुन्ती मानुषी