सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३७७
बालमनोरमा ।

एभ्यो वा डीष्स्यात् । बह्वी-बहुः । 'कृदिकारादक्तिन:' (ग ५०) । रात्रिः-रात्री । “सर्वतोऽक्तिन्नर्थादित्येके' (ग ५१) । शकटिः-शकटी । अक्तिन्नर्थात्' किम् । अजननिः । क्तिन्नन्तत्वाद्प्राप्ते विध्यर्थे पद्धतिशब्दो गणे पठ्यते । “हिमकाषिहतिषु च' (सू ९९२) इति पद्भावः । पद्धतिः-पद्धती ।

५०४ । । पुंयोगादाख्यायाम् । (४-१-४८)

या पुमाख्या पुंयोगात्स्रियां वर्तते ततो डीष्स्यात् । गोपस्य स्री गोपी । 'पालकान्तान्न (वा २४६१) । गोपालिका । अश्वपालिका । सूर्याद्देवतायां


सिद्धे बहुग्रहणं व्यर्थमेवेति प्राञ्चः । वस्तुतस्तु अनुपदोदाहृताकडारसूत्रभाष्यरीत्या सङ्कयासंज्ञक शब्दानां गुणवचनत्वाभावात् अप्राप्तस्य डीषो विधानार्थ बहुग्रहणमित्याहुः । बह्वी-बहुरिति ॥ वैपुल्यवाची बहुशब्दोऽयम् । त्रित्वादिसमनियतसङ्खयाविशेषवावित्वे तु एकवचनानुपपत्तेः । वैपुल्यवाचित्वेऽपि ‘बहुगणवतुडति सङ्खया’ इति सङ्खयाशब्दत्वात् न गुणवचनत्वमिति न वैयर्थ्यं मिति भावः । “कृदिकारादक्तिनः' इति बह्वाद्यन्तर्गणसूत्रम् । कृतो य इकारस्तदन्तात् प्रति पदिकात् डीष् वा स्यात्, न तु क्तिन्नन्तादित्यर्थः । रात्रिः-रात्रीति ॥ 'राशदिभ्यां त्रिप् इति राधातोरौणादिकस्त्रिप् । गुणवचनत्वाभावात् उदन्तत्वाभावाच्चाप्राप्ते वचनम् । “सर्वतोऽक्ति न्नर्थादित्येके' इत्यपि बह्याद्यन्तर्गणसूत्रमेव । कृदिकारान्तादकृदिकारान्तादपि डीष् वा स्यात् । नतु क्तिन्नर्थकप्रत्ययान्तादित्यर्थः । शकटिः-शकटीति ॥ शकटिशब्दस्य अव्युत्पन्नप्राति पदिकत्वात् कृदन्तत्वाभावात् सर्वत इति वचनम् । अव्युत्पत्तिपक्षे रात्रिशब्दोऽप्युदाहरणं बोध्द्यम् । अजननिरिति ॥ स्त्रियां क्तिन्' इत्यधिकारे “ आक्रोशे नञ्यनिः' इति नञि उपपदे जनेरनिप्रत्ययः, अक्तिन इत्युक्तौ अत्र निषेधो न स्यात् । अतः अक्तिन्नर्थादित्युक्तिरिति भावः । ननु हनधातोः स्त्रियां कर्मणि क्तिनि “अनुदात्तोपदेश' इत्यादिना नलोपे हतिशब्दः, तस्य क्तिन्नन्तत्वात् कथं पद्धतिशब्दात् डीषित्यत आह । क्तिन्नन्तत्वादिति ॥ गणे इति ॥ बह्वादिगण इत्यर्थः । ननु पादाभ्यां हृतिरिति विग्रहे “कर्तृकरणे कृता बहुळम्' इति तृतीया समासे सुब्लुकि पाद हति इति स्थिते कथं पदादेशः, “पादः पत्' इत्यत्र कृतसमासान्तलोपस्यैव पाद्शब्दस्य ग्रहणात् भत्वाभावाच्च 'पादस्य पदाज्यातिगोपहतेषु' इत्यपि न सम्भवति । तस्य आज्यादिष्वेव परेषु प्रवृत्तेरित्यत आह । हिमकाषीति ॥ हिमादिषु परेषु पादशब्दस्य पदादेशस्यादिति तदर्थः । पुंयोगात् ॥ पुंयोगादिति हेतौ पञ्चमी । आख्यायामिति पञ्च म्यास्सप्तम्यादेशः । 'सुपां स्थाने सुपो भवन्तीति वक्तव्यम्’ इत्युक्तेः । आख्येत्यनेन वाचक श्शब्दो विवक्षितः, कस्य वाचकः इत्यपेक्षायां पुंयोगादित्युपस्थितत्वात् पुंस इति लभ्यते । तथाच आख्यायामित्यनेन पुंसि प्रसिद्धात् शब्दादिति लभ्यते । पुंयोगादिति त्रियामित्यत्रान्वेति। तथाच पुंयोगमाश्रित्य लक्षणया स्त्रियां वर्तमानादिति लभ्यते । तदाह । या पुमाख्ये त्यादिना ॥ डीषिति । “अन्यतो डीष्’ इत्यतस्तदनुद्युतेरिति भावः । 'वोतो गुणवचनात् 8