पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३५९
बालमनोरमा ।

प्रत्ययस्यादः षः इत्स्यात् ।

४७५ । आयनेयीनीयियः फढखछघां प्रत्ययादीनाम् । (७-१-२)

प्रत्ययादिभूतानां फादीनां क्रमादायन्नाद्य आदेशाः स्युः । तद्धितान्त त्वात्प्रातिपदिकत्वम् । षित्वसामर्थ्यात्ष्फेणोत्तेऽ स्त्रीत्वे “षिद्गौरा ४९८) इति वक्ष्यमाणो ङीष् । गार्ग्यायणी ।

४७६ । सर्वत्र लोहितादिकतन्तेभ्यः । (४-१-१८)

लोहितादिभ्यः कतशब्दान्तेभ्यो यञन्तेभ्यो नित्यं ष्फः स्यात् । लौहि त्यायनी । कात्यायनी ।


तद्वितः ॥ यञ इत्यनुवर्तते, स्त्रियामित्यधिकृतम् । ष्फेति लुप्तप्रथमाकम् । तदाह । यञ न्तादिति । षः प्रत्ययस्य ॥ “ आदिर्ञटुडवः' इत्यतः आदिरित्यनुवर्तते । “ उपदेशेऽज नुनासिक इत्' इत्यतः इदिति च । तदाह । प्रत्ययस्यादिरिति ॥ षकारस्य इत्संज्ञायां तस्य लोपः । आयनेयीनीयियः ॥ आयन्, एय्, ईन्, ईय्, इय्, एषां द्वन्द्वात् प्रथमा बहुवचनम् । फ, ढ, ख, छ, घ, एषां द्वन्द्वात् षष्ठीबहुवचनम् । फादिष्वकार उच्चारणार्थः । यथासङ्खयपरिभाषया क्रमेणान्बयः । तदाह । प्रत्ययादिभूतानामित्यादिना ॥ आयनो नस्य इत्वे नित्स्वरोपयोगेऽपि नेत्त्वम् । फिनो नित्करणात् ज्ञापकात् । तत्साहचर्यादीनोऽपि नस्य नेत्त्वम् । एयादिषु च यस्य नेत्त्वम् । प्रयोजनाभावात् । ननु ष्फस्य तद्धितसंज्ञा किमर्थे त्यत आह । तद्धितान्तत्वादिति ॥ ष्फान्तस्य प्रातिपदिकत्वे प्रयोजनमाह । षिद्वौरेति वक्ष्यमाणो ङीषिति ॥ 'षिद्रौरादिभ्यश्च' इत्यत्र प्रातिपदिकादित्यनुवृत्तम्, ततश्च ष्फान्तस्य प्रातिपदिकत्वाभावे ङीष न स्यादिति भावः । ननु ष्फप्रत्ययेनैव स्त्रीत्वस्य द्योति तत्वात् 'उक्तार्थानामप्रयोगः' इति न्यायादत्र कथं ङीषित्यत आह । षित्वसामर्थ्या दिति ॥ ष्फेण द्योतितेऽपि स्रीत्वे षित्करणसामर्थ्यात् ङीषित्यर्थः । गार्ग्यायणीति ॥ गर्ग स्यापत्यं स्त्री इति विग्रहः । गर्गादियञन्तात् गार्ग्यशब्दात् ष्फः, षकारः इत्, फकारस्य आय न्नादेशः, “यस्येति च' इति यकारादकारस्य लोपः, “हलस्तद्धितस्य' इति तु न भवति । ईती त्यनुवृत्तेः । “आपत्यस्य च' इत्यपि न । अनातीति निषेधात् । षित्वात् ङीष्, णत्वमिति भावः । सर्वत्र ॥ लोहितादिः गर्गाद्यन्तर्गणः । लोहितः आदिः येषामिति, कतः अन्तो येषामिति च विग्रहः । कतन्तेत्यत्र शकंध्वादित्वात् पररूपम् । यञ इत्यनुवृत्तं बहुवचनान्त तया विपरिणम्यते । *प्राचवां ष्फ तद्धितः' इति सूत्रं प्राचांवर्जमनुवर्तते । सर्वत्रेति सर्वेषु मतेष्वित्यर्थः । नित्यमिति यावत् । तदाह । लोहितादिभ्य इत्यादिना ॥ लौहिः त्यायनीति ॥ लोहितस्यापत्यं स्त्री इति विग्रहः । लोहितशब्दात् गर्गादियञन्तात् ष्फः ष इत्, फकारस्यायन् 'यस्येति च' इति यकारादकारस्य लोपः, तद्धित इत्यप्यनुवृत्तेः ।