पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५८
[स्त्रीप्रत्यय
सिद्धान्तकौमुदीसहिता

४७२ । हलस्ताद्वितस्य । (६-४-१५०)

हलः परस्य तद्धितयंकारस्योपधाभूतस्य लोपः स्यादीति परे । गार्गी । अनपत्याधिकारस्थान्न ङीप्’ (वा २४२६) । द्वीपे भवा द्वैप्या । अधिकार ग्रहणान्नेह । देवस्यापत्यं दैव्या । “ देवाद्यञञौ' इति हि यञ्प्राग्दीव्यतीयः, न त्वपत्याधिकारपठितः ।

४७३ । प्राचां ष्फ तद्वितः । (४-१-१७)

यञन्तात्प्फो वा स्यात्स्त्रियाम्, स च तद्धितः ।

४७४ । षः प्रत्ययस्य । (१-३-६)


गार्ग्यशब्दात् ङीपि “हलस्तद्धितस्य, इति यकारलोपात् परत्वात् “यस्येति च' इति यकारा दकारस्य लोपे कृते सति प्रक्रिया वक्ष्यत इत्यर्थः । हलस्तद्धितस्य ॥ हल इति दिग्योगे पञ्चमी । परस्येत्यध्द्याहार्यम् । “यस्येति च ’ इति सूत्रात् ईतीत्यनुवर्तते सूर्यतिघ्यागस्त्य इत्यतः उपधाया इति, य इति षष्ठयन्तं च, “ढे लोपोऽकद्राः' इत्यत: लोप इति च । तदाह । हलः परस्येत्यादिना ॥ अकारलोपात् प्रागेव यकारलोपो न सम्भवति । अकारे सति यकारस्य ईकारपरकत्वाभावात् । ननु कृते अकारलोपे कथं यकारस्य उपधात्वम् । नच अल्लोपस्य स्थानिवत्त्वं शङ्कयम् । यलोपविधौ तन्निषेधादिति चेन्न । यलोपे कर्तव्ये अल्लोपस्या भीयत्वेनासिद्धतया यकारस्य उपधात्वसम्भवात् । उपधाग्रहणाननुवृत्तौ तु अल्लोपस्यासिद्धत्वा द्यकारस्य ईकारपरकत्वाभावात् लोपो न स्यात् । यदा तु सूत्रारम्भसामर्थ्यादेवाकारव्यवधानेऽपि यकारस्य लोपस्सम्भवतीत्युच्यते, तदा उपधाग्रहणानुवृत्तिर्मास्तु । गार्गीति ॥ इह “गोत्रञ्च चरणैस्सह” इति जातित्वेऽपि ‘जातेतरस्त्रीविषयात्' इति न ङीष् । योपधत्वात् । अनपत्या धिकारेति ॥ 'तस्यापत्यम्' इत्यपत्याधिकारविहितभिन्नयञन्तान्न ङीबिति वक्तव्यमित्यर्थः । द्वैप्येति ॥ द्वीपे भवेति विग्रहे 'द्वीपादनुसमुद्रं यञ्' इति यञ् । आदिवृद्धिः । 'यस्येति च' टापि सवर्णदीर्घः । अस्य यञः अपत्याधिकारविहितत्वाभावान्न ङीबिति भावः । नन्वनपत्यान्न ङीबित्येतावतैव द्वैप्येत्यत्रातिप्रसङ्गनिरासात् अधिकारग्रहणं किमर्थमित्यत आह । अधिवकार ग्रहणादिति ॥ इह नेति शेषः । देवस्यापत्यमिति विग्रहे “देवाद्यञञौ' इति यञ्, आदिवृद्धिः यस्येति च' दैव्यशब्दात् टाप्, सवर्णदीर्घः,दैव्येति रूपम् । अनपत्यान्न ङीबित्युक्त्तेः अस्य यञः आपत्यत्वात् ङीनिषेधो न स्यात् । अधिकारग्रहणे तु अत्रापि निषेधस्यादेव । अस्य यञः आपत्यत्वेऽपि “तस्यापत्यम्' इत्यधिकारबहिर्भूतत्वात् । तदेतदुपपादयति । देवादिति ॥ देवाद्यञञौ ' इति तु 'तस्यापत्यम्' इत्यधिकारात् प्रागेव “प्राग्दीव्यतोऽण्' इत्यधिकारपठित सचापत्यादिविकारान्तार्थेषु साधारणत्वात् अपत्यार्थकोऽपि भवति । न त्वपत्याधिकारपठित इत्यर्थः । यद्यपि “यञश्च' इति सूत्रे ‘आपत्यग्रहणं कर्तव्यम्’ इत्येव भाष्ये दृश्यते । तथापि तत्र आपत्यपदम् अपत्याधिकारविहितपरामिति मनोरमायां शब्दरत्रे च प्रपञ्चितम् । प्राचां ष्फ