पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५१४
[तत्पुरुष
सिद्धान्तकौमुदीसहिता

७३७ । पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च । (२-१-५८)

पूर्वनिपातनियमार्थमिदम् । पूर्ववैयाकरणः । अपराध्यापकः ।अपरस्यार्थे स्यार्धे पश्चभावो वक्तव्यः’ (वा ३२५३) । अपरश्वासावर्धश्च पश्चार्धः । कथम् 'एकवीरः' इति । 'पूर्वकालैक-' (सू ७२६) इति बाधित्वा परत्वादनेन समासे 'वीरैक:’ इति हि स्यात् । बहुळग्रहणाद्भविष्यति ।

७३८ । श्रेण्यादयः कृतादिभिः । (२-१-५९)

'श्रेण्यादिषु च्व्यर्थवचनं कर्तव्यम्' (वा १२९६) । अश्रेणयः श्रेणयः कृताः श्रेणीकृताः ।


मिति । प्राग्वदिति ॥ समस्यते स तत्पुरुष इत्यर्थः । नीलमुत्पलं नीलोत्पलमिति ॥ नीलपदन्तावदुत्पलमनीलादुत्पलाद्यावर्तयतीति विशेषणसमर्पकम् । तस्य उत्पलपदेन [वशष्य समर्पकेण समासः । प्रथमानिर्दिष्टत्वाद्विशेषणस्य पूर्वनिपात इति भावः। नच उत्पलपदम् अनु त्पलान्नीलं व्यावर्तयतीत्युत्पलपदस्यापि विशेषणत्वं स्यादिति वाच्यम् । जातिशब्दो गुणक्रिया शब्दसमभिव्याहारे विशेष्यसमर्पक एव, न तु विशेषणसमर्पकः। स्वभावात् । यथा “नीलोत्पलं पाचकब्राह्मणः' इति गुणशब्दयोस्समभिव्याहारे विशेषणविशेष्यभावस्य न नियमः । यथा खञ्जकुब्ज कुब्जखञ्जः' इति । क्रियाशब्दयोरप्यनियमः।यथा पाचक पाठकः पाठक पाचकः। इति, तथा गुणक्रियाशब्दयोरप्यानियमः । यथा खञ पाचकः पाचक खञ्जः' इति भाष्ये स्पष्टम्। तथा “कैलासाद्रिः, मन्दराद्रिः, अयोध्ध्यानगरी' इत्यादौ संज्ञाशब्दा अपि विशेषणसमर्पका एव स्वभावात् । सामान्यजातिविशेषजातिशब्दयोस्समभिव्याहारे तु विशेषजातिरेव विशेषणम्। शिंशपावृक्षः' इत्यादि ज्ञेयम् । ननु वाग्रहणेन सिद्धे बहुळग्रहणं किमथेमित्यत आह । बहुळ ग्रहणादिति ॥ पूर्वाॉपर ॥ पूर्वोदयस्समानाधिकरणेन समस्यन्ते इत्यर्थः । विशेषणसमासे नैव सिद्धे किमर्थमिदमित्यत आह । पूर्वनिपातेति ॥ अपराध्द्यापक इति।।बहुळ ग्रहणानुवृत्त्या पाचकादिक्रियाशब्दैः पूर्वादीनामेषान्न समास इति समर्थसूत्रे भाष्ये स्थितम्। ततश्च अपराध्द्यापकः' इत्युदाहरणमुपेक्ष्यम्। अपरमीमांसकः' इत्युदाहरणमुचितम्। अपरस्यार्धे इति । पश्चात्’ इति सूत्रभाष्ये इदं वार्तिकं स्थितम् । प्रथमवैयाकरणः, चरम वैयाकरणः मध्ध्यान्मः मध्यमवैयाकरणः वीरवैयाकरणः ।आक्षिपति कथमेकवीरः इति ॥ हि यतः अनेन प्रकृतसूत्रेण वीरशब्दस्यैकशब्देन समासे सति वीरशब्दस्य पूर्वनिपाते सति वीरैकः इति स्यात् । अतः “एकवीरः' इति कथमित्यन्वयः । ननु “पूर्वकालैक' इति सूत्रेणैकशब्दस्य वीरशब्देन समासे सति “एकवीरः' इति निर्बाधमित्यत आह । पूर्वकालै केति बाधित्वा परत्वादिति ॥ परिहरति । बाहुळकादिति । बहुळग्रहणानुवृत्तेरस्य सूत्रस्याप्रवृत्तौ पूर्वकालेत्येव समासो भवतीत्यर्थः। श्रेण्यादयः।। श्रेण्यादयः कृतादिभि स्समानाधिकरणैस्समस्यन्ते स तत्पुरुष इत्यर्थः । श्रेण्यादिष्विति ॥ श्रेण्यादिषु समासविधौ