पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
५१३
बालमनोरमा ।

७३५ । उपमितं व्याघ्रादिभिः सामान्याप्रयोगे । (२-१-५६)

उपमेयं व्याघ्रादिभिः सह प्राग्वत्साधारणधर्मस्याप्रयोगे सति । विशेष्य स्य पूर्वनिपातार्थं सूत्रम् । पुरुषव्याघ्रः । नृसोमः । व्याघ्रादिराकृतिगणः । 'सामान्याप्रयोगे ' किम् । पुरुपो व्याघ्र इव शूरः ।

७३६ । विशेषणं विशेष्येण बहुळम् । (२-१-५७)

भेदकं समानाधिकरणेन भेद्येन बहुळं प्राग्वत् । नीलमुत्पलं नीलो त्पलम् । बहुळग्रहणात् ' क्वचिन्नित्यम्' । कृष्णसर्पः । ' क्वचिन्न' । रामो जामदग्न्यः ।


एवञ्च घनशब्दो लक्षणया घनसदृशे श्यामे वर्तते, श्यामशब्दोऽपि घने वर्तते, इति सामाना धिकरण्यम् । अत एव मृगीव चपला मृगचपला इत्यत्र “पुंवत्कर्मधारय’ इति पुंवत्वं सिद्यति। घनशब्दस्य भूतपूर्वगत्योपमानपरत्वन्निर्वाह्यम्। तथाच घनसदृशश्यामः' इति बोधः। सादृश्यं तद्भिन्नत्वे सति तद्रतधर्मवत्वम् । एवञ्च सादृश्यप्रतियोग्यनुयोगिनोस्साधारणधर्मवत्वं लब्धम् । स चेह साधारणधर्मः उत्तरपदापस्थाप्य एव गृह्यते । सन्निहितत्वात् । तथाच घन गतश्यामत्वसदृशश्यामत्ववान्’ इति बोधपर्यवसानम् । ननु विशेषणसमासेन सिद्धे किमर्थमिदं सूत्रमित्यत आह । पूर्वनिपातेति ॥ अन्यथा उभयोरपि गुणवचनतया विशेषणविशेष्य भावे कामचारात् खञ्जकुब्जः कुब्जखञ्जः इतिवदनियमस्यादिति भावः । उपमितम् ॥ प्राग्वदिति ॥ समानाधिकरणैस्समस्यते स तत्पुरुष इत्यर्थः । अत्रोपमितस्य नित्यमुपमाना काङ्क्षत्वादुपमानभूतव्याघ्रादिभिरित्यर्थसिद्धम् । ननु विशेषणसमासेनैव सिद्धे किमर्थमिदं सूत्र मित्यत आह । विशेष्यस्येति । उपमानोपमेयसमभिव्याहारे उपमानस्यैव विशेषणत्वात्पूर्व निपाते प्राप्ते विशेषस्य पूर्वनिपातनार्थमिदमित्यर्थः । पुरुषव्याघ्रः इति ॥ पुरुषो व्याघ्र इवेति विग्रहः । अत्र सादृश्योपपादकश्शौर्यात्मकस्साधारणधर्मः। स इह नोपात्त इति भवति समासः । पुरुषो व्याघ्र इव शूर इति ॥ शौर्येण व्याघ्रसदृश इति यावत् । अत्र शौर्यस्योपमानोपमेयसाधारणधर्मस्य प्रयोगान्न समास इति भावः । “भाष्याब्धिः कातिगम्भीरः इति कैयटप्रयोगस्तु मयूरव्यंसकादित्वात्समाधेयः । भाष्यमेवाब्धिरिति रूपकं वा । नच पुरुषः शब्दस्य शूरशब्दसापेक्षत्वादसामर्थ्यदेवात्र समासस्य न प्रवृत्तिः । अतः 'सामान्याप्रयोगे? इति व्यर्थमिति वाच्यम्। समस्यमानेष्वप्रधानस्यैव हि सापेक्षत्वं सार्मथ्यविघातकं, नतु प्रधानस्य । तथाचात्र पुरुषस्य प्रधानतया तस्य शूरापेक्षत्वेऽपि अस्त्येव सामर्थ्यमिति समासप्रवृत्तेस्तन्नि वृत्त्यर्थ सामान्याप्रयोग इति वचनम् । इदमेव प्रधानस्य सापेक्षत्वेऽपि न सामर्थ्यविघातकत्व मिति ज्ञापयति तेन राजपुरुषसुन्दर इत्यादौ समासस्सिद्धो भवतीति भाष्ये स्पष्टम् विशेषणं विशेष्येण बहुळम् ॥ विशिष्यते अनेनेति विशेषणम्, इतरस्माद्यावर्तकम् । व्यावृत्यन्तु विशेष्यं भिन्नत्वेन ज्ञायमानम् । समानाधिकरणेनेत्यधिकृतम् । तदाह । भेद्दक