पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
५११
बालमनोरमा ।

गोऽन्तात्तत्पुरुषाट्टच्स्यात्समासान्तो न तद्धितलुकि । पञ्चगवधनः । पञ्चानां गवां समाहारः ।

७३० । संख्यापूर्वो द्विगुः । (२-१-५२)

'तद्धितार्थ-' (सू ७२८) इत्यत्रोक्तस्त्रिविधः संख्यापूर्वो द्विगुः स्यात् ।

७३१ ॥ द्विगुरेकवचनम् । (२-४-१)

द्विग्वर्थः समाहार एकवत्स्यात् । 'स नपुंसकम्' (सू ८२१) इति नपुंसकत्वम् । पञ्चगवम् ।


इत्यतष्टजित्यनुवर्तते। समासान्त इत्यधिकृतम्। तदाह। गोऽन्तादित्यादिना । अतद्धितलुकीति किम् । पञ्चभिगॉभि: क्रीतो पञ्चगुः । अत्र तद्धितस्य “अध्यर्ध' इति लुक् । पञ्चगवधन इति ॥ त्रिपदबहुव्रीहौ कृते सति धनशब्दे उत्तरपदे परे पूर्वयोस्तत्पुरुषे टचि अवादेश इति भावः । अत्र ' द्वन्द्वतत्पुरुषयोः' इति वार्तिके द्वन्द्वस्योदाहरणन्तु वाक् च त्वक् च प्रिया यस्य सः वाक्तचप्रिय इति बोध्यम् । इह त्रिपदबहुव्रीहौ कृते पूर्वयोर्नित्यद्वन्द्वः । तेन “द्वन्द्वाच्चुदष हान्तात् समाहारे' इति टजपि नित्य एव । नच वाक्तक्छब्दयोः परस्परसामानाधिकरण्याभा वात् कथमिह त्रिपदबहुव्रीहिरिति वाच्यम्। द्वयोः प्रियाशब्दसामानाधिकरण्यमादाय तदुपपत्तेः। सप्तमी विशेषणे बहुव्रीहौ' इति ज्ञापकेन कण्ठेकाळ इत्यादाविव व्यधिकरणबहुव्रीहिसम्भवाच्च । वाक्तचप्रियः” इति भाष्ये उदाहरणमेवात्र लिङ्गमित्यलम् । अथ समाहारे उदाहर्तु विग्रहन्दर्श यति । पञ्चानां गवां समाहार इति । अत्र समासे सति “गोरतद्धितलुकि' इति टचि अवादेशे पञ्चगवशब्दस्य द्विगुकार्यं विधास्यन् द्विगुसंज्ञामाह । सङ्खयापूर्वो द्विगुः ॥ सङ्खया पूर्वेोऽवयवः यस्येति बहुव्रीहिः । “तद्धितार्थ' इति पूर्वेसूत्रविहितसमासः अन्यपदार्थ- प्रत्यासत्तेः । तदाह । तद्धितार्थेत्यत्रोक्तस्त्रिविध इति ॥ तद्धितार्थे विषये उत्तरपदे च परतस्समाहारे च वाच्ये इत्येवं त्रिप्रकारो यः सङ्खयापूर्वेस्समासः उक्तः स द्विगुरिति यावत् । तथाच पञ्चगवशब्दस्य समाहारे वाच्ये विहितसमासत्वात् द्विगुसंज्ञा स्थिता । तद्धितार्थे तु पञ्चसु सस्कृतः पुराडाशः कपालेषु पञ्चकपालः । “संस्कृतम् भक्षाः’ इत्यण् । “द्विगोर्लुगनपत्ये इति लुक् । उत्तरपदे यथा, पञ्चनावप्रियः । ‘नावो द्विगोः' इति समासान्तष्टच् । द्विगु रेकवचनम् ॥ अत्र ‘समाहारग्रहणं कर्तव्यम्’ इति वार्तिकात् समाहार इति लभ्यते । वक्तीति वचनम् । बाहुळकः कर्तरि ल्युट् । सामान्ये नपुंसकम् । समाहारे द्विगुः । एकार्थप्रतिपाद् कस्यादिति लभ्यते । तत्र यदि समाह्रियत इति कर्मणि घञि समाहारशब्दस्समाहृतप्रधानः । तदा समाहृतगतद्वित्वबहुत्वयोः एकत्वानुपपत्तेरतिदेशस्सम्पद्यते । तदाह । द्विग्वर्थस्समा हार एकवदिति । यदा समाहरणं समाहारः समूहः, तदा तस्यैकत्वादेव सिद्धमिति नेदं सूत्रमारम्भणीयमिति भाष्ये स्पष्टम् । केचित्तु समूहस्य वस्तुत एकत्वेऽपि उद्भूतावयवभेद विवक्षया द्विबहुवचनव्यावृत्त्यर्थमिदम् । एवञ्चात्र उद्भूतावयवभेदविवक्षा न कर्तव्येति फलती