ज्ञायां ञः' (सू १३२८) इति ञः । 'सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः' (वा १३७६) । आपरशालः । पूर्वा शाला प्रिया यस्येति त्रिपदे बहुव्रीहौ चत प्रियाशब्दे उत्तरपदे पूर्वयोस्तत्पुरुषः । तन्न शालाशब्दे आकार उदात्तः । पूर्वशालाप्रियः । दिक्षु समाहारो नास्त्यनभिधानात् । संख्यायास्तद्धितार्थे । षण्णां मातृणामपत्यं षाण्मातुरः । पञ्च गावो धनं यस्येति त्रिपदे बहुव्रीहाव वान्तरतत्पुरुषस्य विकल्पे प्राप्ते “ द्वन्द्वतत्पुरुषयोरुत्तरपदे नित्यसमास वचनम्' (वा १२८७) ।
७२९ । गोरतद्धितलुकि । (५-४-९२)
पूर्वस्यामिति ॥ समासे कृते इति । पूर्वस्यां शालायां भव इति विग्रहे तद्धितार्थ' इति समासे कृते “दिक्पूर्वपदात्’ इति अप्रत्यये कृते “यस्येति च' इत्यकारलोपे आदिवृद्धिरिति भावः । सर्वनाम्न इति ॥ मात्रशब्दः कात्स्रयें । समासताद्वितादिवृत्तिगत सर्वनाम्नां पुंवत्त्वमिति तदर्थः । यदि तु तद्धिते परे दिक्सङ्खये समस्येते इत्युच्यते, तर्हि उत्पन्ने तद्धिते समासः । समासे कृते दिक्पूर्वपदत्वात्तद्धित इत्यन्योन्याश्रयप्रसङ्गः । तद्धितार्थे वाच्ये दिक्सङ्खये समस्येते इति तु न व्याख्यातम् । तद्धितार्थस्य तद्धितवाच्यतया समासार्थत्वा भावात् । अतस्तद्धिते भविष्यतीत्येव व्याख्यातुमुचितम् । आपरशाल इति । अपरस्यां शालायां भव इति विग्रहः । समासादि पौर्वशालवत् । उत्तरपदे परतो दिक्समासमुदाहरति । पूर्वा शाला प्रिया यस्येत्यादिना । ननु बहुव्रीहिसमासे कृते सुपां लुप्तत्वात् उत्तरपदे परतः पूर्वयोः किमनेन समासेनेत्यत आह । तेन शालाशब्दे आकार उदात्त इति ॥ अवान्तरतत्पुरुषे सति समासान्तोदात्तत्वेन लकारादाकार उदात्त इत्यर्थः । असति त्ववान्तर तत्पुरुषे पूर्वपदप्रकृतिखरेणाद्युदात्तत्वं स्यादिति भावः । ननु पूर्वेषां पुरुषाणां समाहार इत्यत्रापि समासस्यादित्यत आह । दिक्ष्विति ॥ दिक्षु समाहारो द्विगुविषयो न भवतीत्यर्थः । समाहारे दिक्पूर्वपदसमासो नास्तीति यावत् । सङ्खयायास्तद्धितार्थे इति ॥ समासः उदाह्रियत इत्यर्थः । तत्र तद्धितार्थे उदाहरति । षाण्मातुर इति ॥ 'मातुरुत्सङ्खयासम्भ द्रपूर्वायाः इत्यण्। प्रकृतेरुकारश्चादेशः आदिवृद्धिश्च अथ उत्तरपदे परत उदाहरति पञ्च गाव इति । अवान्तरतत्पुरुषस्येति ॥ उत्तरपदे परतो विहितस्यत्यर्थः । विकः ल्पे प्राप्ते इति ॥ महाविभाषाधिकारादिति शेषः । ततश्च पञ्चगोशब्दयोस्तत्पुरुषाभावपक्षे “गोरतद्धितलुकि' इति तत्पुरुषप्रयुक्तटजभावे पञ्चगोधन इत्यपि स्यादिति भावः । द्वन्द्व तत्पुरुषयोरिति ॥ उत्तरपदे परतः यौ द्वन्द्वतत्पुरुषौ तयोर्नित्यत्वं वक्तव्यमित्यर्थः । समास ग्रहणन्तु सम्पातायातम् । अनन्वयात्, उत्तरपदे परतस्समाससंज्ञाया अव्यभिचाराच्च । उत्तर पदशब्दस्य समासोत्तरखण्डे रूढत्वात् । गोरतद्धितलुकि ॥ 'तत्पुरुषस्याङ्गुलेः’ इत्यतस्त त्पुरुषस्येत्यनुवृत्तं पञ्चम्या विपरिणतं गोरित्यनेन विशेष्यते । तदन्तविधिः । 'राजाहरसखिभ्यः’