पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
विभक्तिप्रकरणम्]
४५७
बालमनोरमा ।

६२८ । अकेनोर्भविष्यदाधमर्ण्ययोः । (२-३-७०)

भविष्यत्यकस्य भविष्यदाधमर्ण्यार्थेनश्च योगे षष्ठी न स्यात् । सत पालकोऽवतरति । व्रजं गामी । शतं दायी

६२९ । कृत्यानां कर्तरि वा । (२-३-७१)

षष्टी वा स्यात् । मया—मम वा सेव्यो हरिः । 'कर्तरि ' इति किम् गेयो माणवकः साम्राम् (सू २८९४) इति कर्तरि यद्वि धानादनभिहितं कर्म। अत्र योगो विभज्यते। कृत्यानाम्’ 'उभयप्राप्तौ


अकेनोर्भविष्य ॥ नेत्यनुवर्तते अकश्च इन् च तयोरिति विग्रहः। भविष्यञ्च आधमर्ण्यञ्च तयोरिति द्वन्द्व यथासङ्खयं नेष्यते, भाप्यात् । भविष्यति आधमण्यें च वर्तमानयोः योगे षष्ठी नेति फलितम् । तत्र आधमण्यांशः अकेन नान्वेति ।आवश्यकाधमर्ण्येयोणैिनि इत्युक्त्तेः । अतः भविष्यदंश एवाके अन्वेति । इनेस्तु भविष्वदाधमर्ण्ययोरुभयोरप्यन्वयः। सम्भवात् । तदाह । भविष्यत्यकस्येति ॥ भविष्यदाधमर्ण्यर्थेनश्चेति ॥ भविष्यदर्थ कस्य आधमर्ण्यार्थकस्य चेन इत्यर्थः । सतः पालकः इति । सज्जनान् पालयिष्यन् हरिः प्रादुर्भवतीत्यर्थः। तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्' इति भविष्यति ण्वुल् । तत्र “भविष्यति गम्यादयः' इत्यतः भविष्यतीत्यनुवृत्तेः । ओदनस्य पाचकः इत्यत्र तु न षष्ठीनिषेधः । ‘ण्वुल्तृचौ इत्यस्य भविष्यति विधानाभावात् । व्रजं गामीति॥ गमेरिनिः' इत्यौणादिक इनिः । स च भविष्यति विहितः। भविष्यति गम्यादयः' इत्युक्त्तेः । गोष्ठं गमिष्यन्नित्यर्थः । शतं दायी ति ॥ ऋणत्वेन गृहीतं शतमृणं प्रत्यर्पयतीत्यर्थः। आवश्यकाधमर्ण्येोर्णिनिः' इत्याधमर्ण्यें णिनिः । तस्य भविष्यति विधानाभावात् भविष्यदर्थकतया गतार्थत्वं न शङ्कयम् । कृत्यानाम् शेषपूरणेन सूत्रं व्याचष्टे। षष्ठी वा स्यादिति ॥ कृत्या इत्यधिकृत्य विहिताः कतिपयकृत्प्रत्यय विशेषाः, तद्योगे कर्तरि षष्ठी वा स्यादित्यर्थः । 'कर्तृकर्मणोः' इति नित्यं प्राप्त विकल्पोऽयम् मया मम वा सेव्यो हरिरिति ॥ ‘षेवृ सेवायाम्’ ‘ऋहलोर्ण्यत्’ इति कर्मणि ण्यत्प्रत्यय अस्मच्छब्दार्थस्य कर्तुः अनभिहितत्वात् षष्ठीतृतीये । गेय इति ॥ नन्विह साम्नः। कर्मत्वस्य अचो यत्' इति यत्प्रत्ययाभिहितत्वात् कथं षष्ठीप्रसक्तिरित्यत आह । भव्येति ॥ ननु नेतव्या व्रजं गावः कृष्णेन' इत्यत्र कृत्यसंज्ञकतव्यप्रत्ययय योगात् उभयप्राप्तौ' इति बाधित्वा कृष्णात् षष्ठीविकल्पस्यात्, व्रजात्तु ‘कर्तृकर्मणोः कृति' इति नित्यं षष्ठी स्यादित्यत आह अत्र योगो विभज्यते इति । विभागप्रकारं दर्शयति । कृत्यानामिति । अनुवर्तते इति तथाच कृत्ययोगे कर्तृकर्मणोरुभयोः प्रसक्ता षष्ठी नेत्यर्थः फलति । नेतव्या व्रजमिति गुणकर्मणि वेष्यते' इति व्रजद्विकल्पस्तु न भवति । नेता अश्वस्य स्नुघ्नस्य स्नुघ्रं वेति उभयप्राप्तिरहिते कृत्यव्यतिरिक्ते चरितार्थस्य 'दोग्धव्याः गाः पयः कृष्णेन' इत्यादौ गुणकर्मणः 58