पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४५६
[कारके षष्ठी
सिद्धान्तकौमुदीसहिता

त्सृष्टा । सुखं कर्तुम् । निष्ठा । विष्णुना हता दैत्याः । दैत्यान्हतवान्विष्णुः । खलर्था: । ईषत्करः प्रपञ्चो हरिणा । ' तृन्' इति प्रत्याहार । ' शतृशानचौ' इति तृशव्दादारभ्य तृनां नकारात् । शानन् । सोमं पवमानः । चानश् । आत्मानं मण्डयमानः । शतृ । वेदमधीयन् । तृन् । कर्ता लोकान् । द्विषः शतुर्वा' (वा १५२२) । मुरस्य-मुरं वा द्विषन् । ' सर्वोऽयं कारकषष्ठयाः प्रतिषेधः' । शेषे षष्टी तु स्यादेव । ब्राह्मणस्य कुर्वन् । नरकस्य जिष्णुः ।


इति केचित् । वस्तुतस्तु अविशेषात् अकृदन्तमपीति तत्त्वम् । देवदत्तं हिरुक् । तत्कर्मकं वर्जनमित्यर्थः । निष्ठेति । उदाहरणसूचनमिदम् । “क्तक्तवत् निष्ठा' । विष्णुना हता इति । अत्र भूते इति कर्मणि क्तः । कर्तरि षष्ठीनिषेधात्तृतीया । दैत्यान् हतवानिति ॥ भूते कर्तरि क्तवतुः । कर्मणि षष्ठीनिषेधात् द्वितीया । खलर्था इति । उदाहरणसूचनमिदम् । ईषत्कर इति ॥ 'ईषदुस्सुषु कृच्छ्राकृच्छ्रार्थेषु खल्’ इति कर्मणि खल् । अर्थग्रहणात् 'आतो युच्’ इति खलर्थको युजपि गृह्यते । ईषत्पानस्सोमो भवता । ननु तृन्नित्यनेन यदि तृनेव गृह्यत, तर्हि सोमं पवमान इत्यादौ निषेधो न स्यादित्यत आह । तृन्निति प्रत्याहारः इति । कुत आरभ्य किमन्तानामित्यत आह । शातृशानचाविति तृशाब्दादारभ्य तृनो नकारादिति ॥ लटश्शतृशानचावित्यत्र शत्रादेशस्य एकदेशस्तृशव्दः, तत आरभ्य “तृन् इति सूत्रस्थनकारपर्यन्तानामित्यर्थः । “लटशतृशानचवावप्रथमासमानाधिकरणे, सम्बोधने च तौ सत्, पूङ्यजोश्शानन्, ताच्छील्यवयोवचनशक्तिषु चानश्, इङ्धायोश्शत्रकृच्छ्राणि, द्विषो ऽमित्रे, सुञो यज्ञसंयोगे, अर्हः प्रशंसायाम्, आ क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु, तृन्’ इति सूत्रक्रमः । अत्र शानन्नादितृन्नन्तानां ग्रहणम्, नतु “लटश्शतृ' इति तृशब्दस्यापि शत्रादेशैक देशस्य । तस्य क्वापि पृथक् प्रयोगानर्हत्वात् । नापि शानचः । लादेशत्वादेव सिद्धेः इति स्थितिः । शानन्निति ॥ उदाहरणसूचनमिदम् । सोमं पवमान इति ॥ 'पूड्यजोश्शानन्” । आत्मानं मण्डयमान इति । “मडि भूषायाम्' 'ताच्छील्यवयोवचन' इति चानश् । शतृ इति ॥ उदाहरणसूचनमिदम् । वेदमधीयन्निति इङ्धार्थोः' इति शतृप्रत्यय तृन्निति । उदाहरणसूचनमिदम् । कर्ता लोकानिति ॥ तृन्निति सूत्रेण तच्छीलादिषु तृन्प्रत्ययः । शानन्नादितृन्नन्तानां लादेशत्वाभावात् प्रत्याहाराश्रयणमिति बोध्यम् । द्विष श्शतुर्वेति ॥ शत्रन्तद्विषधातुयोगे षष्ठीनिषेधो वा वक्तव्य इत्यर्थः । मुरस्य मुरं वा द्विषन्निति ॥ ‘द्विषोऽमित्रे' इति शतृप्रत्ययः । तस्य तृन्प्रत्याहारप्रविष्टत्वान्नित्यनिषधे प्राप्त विकल्पोऽयम् । सर्वोऽयमिति । “ अनन्तरस्य’ इति न्यायादिति भावः । शेषे पष्टी त्विति ॥ शाब्दबोधे प्रकारवैलक्षण्यं फलमिति भावः । ब्राह्मणस्य कुर्वन्निति ॥ हविरिति शेषः । लटशत्रादशः । मुखतो ब्राह्मणसम्बन्धिसृष्टयनुकूलव्यापारवानित्यर्थः । कर्मत्वविवक्षायान्तु द्वितीयैव । नरकस्य जिष्णुरिति ॥ 'ग्लाजिस्थश्च ग्स्नुः' इति तच्छीलादिषु ग्स्नुप्रत्ययः । नरकसम्बन्धिजयवानित्यर्थः । कर्मत्वविवक्षायान्तु द्वितीयैव ।