पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/८

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्


इदन्तप्रकरणम्]
१९३
बालमनोरमा ।


निज्भि । ' चो कु ' (सू ३७८) इति कुत्व तु न भवति । जश्त्वस्यासि द्धत्वात् । जश्त्वम् । श्चुत्वम् । चर्त्वम् । निच्शु । निच्छु । 'मांसपृतनासा नूना मांस्पृत्स्नवो वाच्या शसादौ वा' (वा ३४९६)। पृत. । पृता । पृद्भयाम् । पक्षे सुटि च रमावत् । गोपा विश्वपावत् ।

इत्यादन्ता ।

॥ अथ अजन्तस्त्रीलिङ्गे इदन्नप्रकरणम् ॥

मतिशब्द प्रायेण हरिवत् । स्त्रीत्वान्नत्वाभाव । मती । नात्वं न । मत्या ।

२९६ । डिति ह्रस्वश्च । (१-४-६)


ङ्कय आह । कुत्वन्तु नेति । जश्त्वस्यासिद्धत्वादिति ॥ कुत्व प्रतीति शेष । निच्शु इति ॥ निश् सु इति स्थिते, शस्य जश्त्वेन ज , सस्य श्चुत्वेन श , जस्य चर्त्वेन च, शस्य छत्वविकल्प । मांसपृतना ॥ मास, पृतना, सानु, इत्येतेषा मास्, पृत्, स्नु, इत्यादेशा वाच्या इत्यर्थ । ‘पद्दनो’ इति सूत्रे वार्तिकमेतत् । अत एवाह । शसादौ वेति ॥ पद्दन्नितिसूत्रस्य शसादौ विकल्पेन प्रवृत्तेरिति भाव । माससानुशब्दयोरस्त्रीलिङ्गत्वात् पृतनाशब्दस्यैव शसादौ पृदादेशमुदाहरति । पृत. इति ॥ पक्षे इति ॥ पृदादेशाभावपक्षे इत्यर्थ । गोपा विश्व पावदिति ॥ आबन्तत्वाभावात् न सुलोप इत्यर्थ ॥

इत्यादन्ता ।

अथ इदन्ता निरूप्यन्ते । मतिशब्दः प्रायेण हरिवदिति ॥ प्रायशब्दो बहु ळपर्याय । “प्रायो भून्नि' इत्यमर । इह तु ईषदूनत्वे वर्तते । प्रकृत्यादित्वात्तृतीया। मतिशब्द ईषदूनहरिशब्दवत् प्रत्येतव्य इत्यर्थ । शसि विशेषमाह । स्त्रीत्वान्नत्वाभावः इति ॥ 'तस्माच्छसो न पुसि' इति नत्वस्य पुस्त्वे विधानादिति भाव । तृतीयैकवचने घित्वान्नाभाव माशङ्क्य आह । नात्वन्नेति ॥ 'आडो नाऽस्त्रियाम्' इति नात्वविधौ अस्त्रियामिति पर्युदासा दिति भाव । इदन्तत्वात् यू स्त्र्याख्याविति नदीत्वे अप्राप्ते ङित्सु तद्विकल्प दर्शयितुमाह । डिति हृस्वश्च ॥ अत्र चकाराद्वाक्यद्वयमिदम् । तथा हि। “यू स्त्र्याख्यौ नदी' इत्यनुवर्तते। ईश्व ऊश्व यू “दीर्घाज्जसि च' इति पूर्वसवर्णदीर्घाभावश्छान्दस. । स्त्रियमेवाचक्षाते स्त्र्याख्यौ