पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९२
[अजन्तस्त्रीलिङ्गे
सिद्धान्तकौमुदीसहिता

२९४ । व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः । (८-२-३६)

व्रश्चादाना सप्तानां छशान्तयोश्च षकारोऽन्तादेश स्याज्झलि पदान्ते च। षस्य जश्त्वेन ड। निड्भ्याम्। निड्भि। सुपि 'ड् सि धुट्' (सू १३१) इति पक्षे धुट् । चर्त्वम् । तस्यासिद्धत्वात् 'चयो द्वितीया-' (वा ५०२३) इति टतयोष्ठथौ न। 'न पदान्ताट्टो-' (सू ११४) इति ष्ठुत्वं न । निट्त्सु-निट्सु।

२९५ । षढोः कस्सि । (८-२-४१)

षस्य ढस्य च क स्यात्सकार परे। इति तु न भवति। जश्त्व प्रत्यसिद्धत्वात् । केचित्तु व्रश्चादिसूत्रे 'दादेर्धातो-' (सू ३२५) इति सूत्रात् 'धातो' इत्यनुवर्तयन्ति । तन्मते जशत्वेन जकारे निज्भ्याम् ।


निश् भ्यामिति स्थिते । व्रश्चभ्रस्ज॥ व्रश्चादयस्सप्त धातव । छशौ वणो, ताभ्या शब्दरूप- विशेष्यमादाय तदन्तविधि। 'झलो झलि' इत्यतो झलीत्यनुवर्तते । पदस्येत्यधिकृतम्। स्कोस्सयोगाद्योरन्ते च' इत्यत अन्ते इत्यनुवर्तते । तदाह। व्रश्चादीनामिति॥ अन्ता- देश इत्यलोऽन्त्यसूत्रलभ्यम्। षस्य जश्त्वेन डः इति ॥ प्रकृतसूत्रेण शस्य षत्वे तस्य षकारस्य 'स्वादिषु' इति पदत्वात् 'झलाञ्जशोऽन्ते' इति जश्त्वेन स्थानसाम्याड्डकारे निड् भ्यामित्यादि रूपमित्यर्थ । सुपीति ॥ निश् सु इति स्थिते 'व्रश्च' इति षत्वे तस्य जश्त्वेन डकारे ‘डस्सि धुट्’ इति कदाचित् धुडागम । चर्त्वमिति॥ 'डधयो ' इति शेष। स्थान साम्यात् डस्य ट धस्य त। तस्येति॥ चर्त्वस्येत्यर्थ। ठथौ नेति॥ धुडभावपक्षे टस्य ठो न । धुट्पक्षे तस्य यो नेत्यर्थ। 'नादिन्याक्रोशे ' इति सूत्रस्थभाष्ये “चयो द्विती- या ' इत्यस्य पाठदर्शनात् तदपेक्षया परत्वम् । अथ तकारस्य ष्टुत्वेन टकारमाशङ्क्य आह। न पदान्तादिति॥ 'स्वादिषु' इति पदत्व बोध्यम् । निट्त्सु इति ॥ धुट्पक्षे रूपम् । तद- भावपक्षे तु निट्सु । तत्र धुडभावपक्षे निश् सु इति स्थिते “व्रश्च' इति पत्वे तस्य षकारस्य जश्त्वात् प्राक् ककारमाशङ्कितुमाह । षढोः कस्सि ॥ षश्च ढश्चेति द्वन्द्व । सि इति सप्तमी तदाह । षस्येत्यादिना ॥ इति तु न भवतीति ॥ षकारस्य ककारो न भवतीत्यर्थ । जश्त्व प्रत्यसिद्धत्वादिति ॥ 'झलाञ्जशोऽन्ते' इत्यपेक्षया ' षढो कस्सि' इत्यस्य पर- त्वादिति भाव । शसि निशादेशाभावपक्षे सुटि च रमावत् । व्रश्चादिसूत्रे मतान्तरमाह । केचित्त्विति॥ 'एकाचो बश ' इत्युत्तरसूत्रे धातोरित्यस्यानुवृत्त्या मध्द्येऽपि तदनुवृत्तरौचित्या- दिति भाव । अनुवृत्तञ्च धातोरित्येतत् छशयोरेव विशेषणम् । व्रश्चादिषु धातुत्वाव्यभिचा- रात् । जश्त्वेनेति ॥ निश् भ्यामित्यादौ निश् इत्यस्य धातुत्वाभावात् षत्वाभावे 'झलाञ्ज- शोऽन्ते' इति जश्त्वेन शकारस्य स्थानसाम्यात् जकार इत्यर्थ. । निज् भ्यामित्यत्र कुत्वमाश-