पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/५

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्


                                             सिद्धान्तकौमुदीसहिता|                                                     [अजन्तस्त्रीलिङ्गे

आ आप्’ इति प्रश्लिष्याकाररूपस्यैवाप सर्वत्र ग्रहणात् । एव हल्ङ्याप् (सू २५५) इति सूत्रेऽपि 'आ आप' 'डी ई' इति प्रश्लेषात्, “ अतिखट्व ' ' निष्कौशाम्बि ' इत्यादिसिद्धेर्दीर्घग्रहणं प्रत्याख्येयम् । न चैवमपि ' अति-

स्कारेण स्थान्यलमाश्रित्य प्रवर्तमानो विधिरत्विधि ।नतु यथाकथञ्चित अलाश्रयविधिरपि रामायेत्यत्र 'सुपि च' इति दीर्घभावप्रसङ्गात् । तत्र हि दीर्घो यजादिसुपि परतो विधीयते । यादेशस्य च सुप्त्व स्थानिवत्त्वलभ्यम् । यादेशस्य च एकार अल् स्थानी । ततश्च दीर्घस्य स्वनिमित्तभूतसुप्त्वाशे तदाश्रयत्वादनत्विधाविति निषेधात् दीर्घे कर्तव्ये यादेशस्य स्यानि- वत्त्वाभावेन सुप्त्वाभावात् तस्मिन् परतो दीर्घो न स्यात् । अल्त्वव्याप्याकारत्वादिधर्म- पुरस्कारेण स्थान्यलमाश्रित्य प्रवर्तमानो विधिरत्विधिरित्याश्रयणे तु न दोष । दीर्घो हि यादशस्थानिभूत एकारमेकारत्वेन नाश्रयति । किन्तु सुप्त्वेनैव । सुप्त्वञ्चात्त्वव्याप्यन्न भवति । भ्यामादावपि सत्त्वात् । ततश्च दीर्घस्थानत्विधित्वात् तस्मिन् कर्तव्ये यादेशस्य स्थानिवत्त्वेन सुप्त्वसम्भवात् दीर्घो निर्बाध। प्रकृते च एत्त्वादवधय जरसादेशस्थानीभूताबन्तत्व- पुरस्कारेण सम्भवत्प्रवृत्तिका । आप्त्वञ्च समुदायधर्म । नत्वाकारमात्रस्य । ततश्च एत्त्वा- दिविधीनामनाविधित्वात्तेषु कर्तव्येषु जरसादेशस्य स्थानिवत्त्वेनाबन्तत् दुर्वारमित्याशङ्क्य आह । आ आबित्यादिना ॥ ' आडेि चाप ' इत्यादिषु सवर्णदीर्घेण आ आप् इति प्रश्लिष्य आकाररूपाबन्ताश्रयणेन एत्त्वादयो विधीयन्ते । ततश्च ते आकाररूपेणाप्यापमाश्रयन्तीति तेषामल्विधित्वात् तेषु कर्तव्येषु जरसादेशस्य स्थानिवत्त्वादाबन्तत्व न सम्भवति । ततश्च एत्त्वादिविधयोऽत्र न भवन्तीत्यर्थ । प्रसङ्गादाह । एवमिति । यथा ' आडि चाप' इत्यादिषु आ आबिति प्रश्लेष । एव हल्डयाब्- इत्यत्र डी, ई, आ, आबिति सवर्णदीर्घेण प्रश्लषात् दीर्घग्रहण प्रत्याख्येयमित्यन्वय । ननु तत्र दीर्घग्रहणाभावे अतिखट्व निष्कौशाम्बि रित्यत्रापि सुलोपस्स्यात् । तथाहि । खट्वाशब्दष्टाबन्त । खट्टामतिक्रान्त अतिखट्व । 'अत्यादय क्रान्ताद्यर्थे' इति समास । कुशाम्बेन निर्वृत्ता नगरी कौशाम्बी । ‘तेन निर्वृत्तम्’ इत्यण् । ‘टिड्ढा- णञ्' इति डीप । निष्क्रान्त कौशाम्ब्या निष्कौशाम्बि । 'निरादय क्रान्ताद्यर्थे पञ्चम्या' इति समास । उभयत्रापि 'गोस्त्रियो ' इति आपो डीपश्च हूस्व, ततस्सुबुत्पत्तिरिति स्थिति । अत्र स्थानिवत्त्वेनाकाररूपाबन्तत्वस्य ईकाररूपङ्यन्तत्वस्य चानपायात् सोर्हल्डया- दिलोपे प्राप्त तन्निवृत्त्यर्थ दीर्घग्रहण आवश्यकमेवेत्यत आह । अतिखट्वः, निष्कौशाम्बि रित्यादिसिद्धेरिति ॥ अयमाशय । डी, ई, आ, आबिति प्रश्लेषे सति आत्वरूपेण ईत्व- रूपेण च डयापावाश्रित्य सुलोपप्रवृत्तिर्वक्तव्या। ईत्त्वात्वयोश्च अल्त्वव्याप्यधर्मत्वात् तत्पुरस्कारेण प्रवर्तमानलोपविधेरल्विधित्वान्न स्थानिवत्त्वेन डयाबन्तत्वमस्तीति न सुलोप इति फलितम् । एवञ्च दीर्घग्रहणप्रयोजनस्य प्रश्लेषेणैव सिद्धत्वात् हल्डयादिसूत्रे दीर्घग्रहण न कर्तव्यमित्यन्यत्र विस्तर । स्यादेतत् । “याडाप ' इत्यत्र आ आबिति प्रश्लेषे सत्यपि अतिखट्वायेत्यत्र याड् दु- र्वारः । खट्वामतिक्रान्त अतिखट्व । ‘अत्यादय' इति समासे 'गोस्त्रियो ' इति ह्रस्वत्वे रूपम् । ततो ङेर्यादेशे 'सुपि च' इति दीर्घे अतिखट्वायेति रूपम् । तत्र 'याडाप' इति याट् स्यात् ।