पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/६

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्


आदन्त प्रकरणम् ]
१९१
बालमनोरमा ।

खट्वाय' इत्यत्र स्वाश्रयमाकारत्व स्थानिवद्भावेनाप्त्व चाश्रित्य याट् स्यादिति वाच्यम् । आबन्त यदङ्ग तत परस्य याड़िधानात् । “उपसर्जनस्त्रीप्रत्यये तदादिनियमात् ' । 'पद्दन्नो–' (सू २२८) इति नासिकाया नस् । नस । नसा । नोभ्यामित्यादि । पक्षे सुटि च रमावत्। निशाया निश् । निश । निशा।


दीर्घे सति स्थानिवत्त्वेनाकाररूपाप्त्वस्य सत्वात् । नचाकारत्वस्य अल्त्वव्याप्यधर्मत्वात् तत्पुर- स्कारेण प्रवर्तमानयाड्विधेरल्विधित्वात् न दीर्घस्य स्थानिवत्त्वेनाकारत्वावच्छिन्नाप्त्वमिति वा- च्यम् । याड्विधिर्हि आकाररूपाबाश्रय । तत्र आकाररूपत्व दीर्घस्य स्वत एव सिद्धमिति न तत् स्थानिवत्त्वलभ्यम् । किन्तु आप्त्वमेव स्थानिवत्त्वलभ्यम् । आप्त्वञ्च समुदायधर्म एव । नत्वल्त्वव्याप्यधर्म । तेन रूपेण स्थान्यलाश्रयत्वेऽपि अत्विधित्वाभावाद्याड्विधौ स्थानिवत्त्व दुर्वारमिति शङ्कामुद्भाव्य परिहरति । न चेतिएवमपीति । 'याडाप ' इत्यत्र आकारप्रश्लेषे सत्यपीत्यर्थ । स्वाश्रयमिति ॥ स्व आकार आश्रयो यस्याकारत्वस्य तत्स्वाश्रयम् । स्वत- स्सिद्धमिति यावत् । एवमपीत्यारभ्य याट् स्यादित्यन्तस्सन्दर्भ शङ्कापर । इति च न वाच्यमि- त्यन्वय । कुत इत्यत आह । आबन्त यदङ्गमिति ॥ 'याटाप ' इत्यत्र हि आब्ग्रहणेन प्रत्ययग्रहणपरिभाषया आबन्त गृह्यते । अङ्गस्येति तद्विशेषण भवति । ततश्चाबन्तादङ्गात् पर स्य डितो याड्विधीयते । यस्मात् शब्दात् य प्रत्ययो विहित तादृशप्रकृतिभूतशब्दरूपाद्यवयव- कस्य तत्प्रत्ययरूपान्तावयवकस्य समुदायस्य ग्रहणामिति परिभाषार्थ । प्रत्ययग्रहणे प्रकृतिप्र- त्ययसमुदायस्य ग्रहणमिति पर्यवसन्नार्थ । प्रकृते चातिखट्वायेत्यत्र खट्वशब्दाददन्तात् टाब्वि- धानात् खट्वा इत्येव टाबन्तम् । तत्तु डित विभक्तिं प्रति नाङ्गम् । अतिखट्वशब्दादेव डितो विधानात् । यत्वङ्गमतिखट्वेति न तट्टाबन्तम् । अत स्थानिवत्त्वेन आप्त्वे सत्यपि न याडिति भाव । ननु “ष्यडस्सप्रसारणम्' इत्यत्र भाष्ये स्त्रीप्रत्यये वाचनिकस्तदादिनियमप्रतिषेध पठित । तत् कथमस्य तत्प्राप्तिरित्यत आह । उपसर्जनेति ॥ तत्र भाष्ये 'स्त्रीप्रत्यये चानु- पसर्जनेन' इति उपसर्जनादन्यत्रैव तदादिनियमनिषेधस्य उक्ततया प्रकृते स्त्रीप्रत्यये उपसर्जने तदादिनियमस्य निर्बाधत्वादिति भाव । नन्वेवमप्याब्ग्रहणेन प्रत्ययग्रहणपरिभाषया तदन्ते गृहीते तेनाङ्गस्य विशेषणात् आबन्तान्त यदङ्गमित्यर्थात् अतिखट्वायेत्यत्र स दोषस्तदवस्थ इति वाच्यम् । अङ्गस्य विशेषणत्वाश्रयणात् । अत एव आब्ग्रहणे अदीर्घ आदेशो न स्थानिवदिति वार्तिकेन हृस्वे स्थानिवत्त्वनिषेधात् कथ तत्स्थानिके दीर्घे तल्लाभ इति वार्तिककारमत भाष्य- कारेण दूषितम् । अङ्गस्य विशेषणत्वाश्रयणात् । अथ नासिकाशब्दे विशेषमाह । पद्दन्निति ॥ शसि नसः । टा नसा । नोभ्यामित्यादीति ॥ नसू भ्यामित्यत्र 'स्वादिषु' इति पदत्वे 'ससजुषो रु ' इति रुत्वे 'हशि च' इत्युत्त्वे गुणे नोभ्याम् । नोभिः इत्यादि रूपमित्यर्थ । नस्सु । पक्षे इति ॥ शसादौ नसादेशाभावपक्षे इत्यर्थ । अथ निशाशब्दे विशेष दर्शयति । निशाया निशिति ॥ शसादौ 'पद्दन्नो' इत्यनेनेति शेषः ।