पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/४४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


रेफान्तप्रकरणम्]
२२९
बालमनोरमा ।

वात् “हल्डयाप्–’ (सू २५२) इति सुलोपो न । सुद्यौ , सुदिवौ, सुदिव. । सुदिवम्, सुदिवौ।

३३७ । दिव उत । (६-१-१३१)

दिवोऽन्तादेश उकार स्यात्पदान्ते । सुद्युभ्याम् । सुद्युभि , इत्यादि । इति वान्ता

॥ अथ हलन्तपुलॅिङ्गे रेफान्तप्रकरणम् ।।

चत्वार । चतुर । चतुर्भि । चतुर्भ्य । चतुर्भ्य ।

३३८ । षट्चतुर्भ्यश्च । (७-१-५५)


तिपदिकस्येति । औदिति तकार उच्चारणार्थ । नत्वादश तकारश्श्रूयत । एवञ्चानेका त्वप्रयुक्त सर्वादेशत्वन्न । तकारस्य इत्सज्ञा तु न । फलाभावात् । तित्स्वरितस्य तु नात्र सम्भव ।

  • तिति प्रत्ययग्रहणम्' इति वार्तिकान् । ननु सुदिव स् इत्यत्र वकारस्योत्वे इकारस्य यणि

औकारस्य स्थानिवत्वेन हल्त्त्वात् हल्त्डयादिना सुलोपस्यादित्यत आह । अल्विधित्वेनेति ॥ औकारादेशस्थानिभूतात् वकारात्मकहल परत्वमाश्रित्य प्रवर्तमानस्य सुलोपस्याल्विधित्वादिति भाव । सुद्यौरिति ॥ आङ्गत्वात् तदन्नस्याप्योत्वे यण । रुत्वविसगो । सुदिवाविति ॥ अजादषु सुदिव्शब्द अविकृत एवेति भाव । भ्यामादौ हलि विशेषमाह । दिव उत् ॥ अन्तादेशः इति ॥ अलोऽन्त्यसूत्रलभ्यम् । पदान्त इति ॥ पदान्तादित्यनुवृत्त सप्तम्या विपरिणम्यते इति भाव । उतस्तपरत्वन्तु ‘भाव्यमान उकारस्सवर्णग्राहक ' इति ज्ञापनार्थमिति

  • तित्स्वरितम्' इति सूत्रे भाष्ये स्पष्टम्। सुद्युभ्यामिति । वकारस्य उत्त्वे इकारस्य यण् । अत्र

उकारस्य हलइति दीर्घस्तुन । वकारस्थाने उकारस्य सम्प्रसारणत्वानवसायात्। सम्प्रसारणशब्देन विहितस्यैव इक्स्थानिकस्य यणस्सम्प्रसारणत्वात्” इति ‘इग्यण'इति सूत्रे शब्देन्दुशेखरे स्पष्टम्। इत्यादीति । सुदिवे । सुद्युभ्य । सुदिव, सुदिवो , सुदिवाम् । सुद्युषु ॥

          इति वान्ता ।                                                                              

अथ रेफान्ता. निरूप्यन्ते । 'चतेरुरन्' इत्युणादिषु चतुर्शब्दो व्युत्पादित . नित्य बहुवचनान्त । चत्वारः इति ॥ जसि रूपम् । 'चतुरनडुहो ' इत्युकारात् आम्। उकारस्य यणिति भाव । चतुरः इति । शसादौ सर्वनामस्थानत्वाभावान्नाम् । चतुर् आम् इति स्थिते हृस्वाद्यन्तत्वाभावात् जुटि अप्राप्त । षट्चतुभ्यैश्च ॥ षट्चतुभ्य