पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/४३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


२२८
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

तुरासाहौ । तुरासाह. । तुराषाड्भ्यामित्यादि । 'तुर सहते' इत्यर्थे 'छन्दसि सहः’ (सू ३४०९) इति ण्वि । लोके तु माहयते. किप् । “ अन्येषामपि–- (सू ३५३९) इति पूर्वपदस्य दीर्घ । इति हृान्ता

॥ अथ हलन्तपुलेिंङ्गे वकारान्तप्रकरणम् ॥

३३६ । दिव औत् । (७-१-८४)

दिविति प्रातिपदिकस्य औत्स्यात्सौ परे । अल्विधित्वेन स्थानिवत्त्वाभा


मूर्धन्येति ॥ “अपदान्तस्य मूर्धन्य' इति तदधिकारादिति भाव । मूर्धनि भव मूर्धन्य । मूर्ध स्थानक इत्यर्थ । तुराषाट्-तुराषाडिति ॥ सुलोपे ढत्वे जश्त्वेन डत्वे सस्य मूर्धन्य षकार । विवृतप्रयत्न्नसाम्यात् । “वावसाने' इति चर्त्वपक्षेऽपि मूर्धन्यो भवत्येव । सूत्रे साड इति कृतजश्त्वनिर्देशस्य पदान्तोपलक्षणत्वादिति भाव । तुरासाहार्विति ॥ अपदान्तत्वान्न मूर्धन्य इति भाव । इत्यादीति । तुराषाङ्भि । तुराषाङ्भ्य तुरासाहे । तुरासाह तुरासाह । तुरासाहो । तुराषाट्सु-तुराषाट्त्सु । अथ तुराषाट्शब्द व्युत्पादयति । तुरं सहते इत्यर्थे छन्दसि सह इतीति । कर्मण्युपपदे महेर्ण्विस्स्यात् छन्दसीति तदर्थ. । णकार इत्, उपधावृद्धि, अपृक्तलोप । ननु ण्विप्रत्ययस्य छन्दोविषयत्वे तुरासाह्शब्दस्य कथ लोके प्रयोगः इत्यत आह । लोके त्विति ॥ सहेर्ण्यन्तात् क्विपि णिलोपे अपृक्तलोपे च सति, लोके प्रयोज्य इति भाव । ननु “नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ' इति हि सहौ क्विबन्ते पर एव पूर्वपदस्य विहितो दीर्घ कथमिह स्यादित्यत आह । अन्येषामपीति । “सहेः किम् । डकारेण सहित सड मृडादिशब्द स यस्य नाम सोऽपि लक्षणया सड तस्यापत्य साडि । अत इञ् । 'यस्येति च' इत्यकारलोप । अगदिवृद्धि । साडिरिति रूपम् । अत्र न मूर्धन्य ” इति भाष्ये स्थितम् ॥ इति हान्ता अथ वकारान्ता निरूप्यन्ते । दिव्शब्द स्त्रीलिङ्ग “द्योदिवौ द्वे स्त्रियामभ्र व्योम पुष्करमम्बरम्” इत्यमर । सु शोभना द्यौर्यस्येति बहुव्रीहौ पुसि सुदिव स् इति स्थिते । दिव औत् ॥ ‘सावनडुह ' इत्यत सौ इत्यनुवर्तते । दिव इति षष्ठयन्तम्। ‘दिवेर्डिंवि.’ इति औणादिकम् अव्युत्पन्न वा प्रातिपदिक गृह्यते, नतु 'दिव् क्रीडादौ' इति धातु. । “निरनुबन्धकग्रहणे न सानुबन्धकस्य' इति न्यायात् । तदाह । दिविति प्रा