पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२०
[अजन्तनपुंसकलिङ्गे
सिद्धान्तकौमुदीसहिता

॥ अथ अजन्तनपुंसकलिङ्गे ऐदन्तप्रकरणम् ॥

प्ररि प्ररिणी प्ररीणि । प्ररिणा एकदेशविकृतस्यानन्यत्वात् रायो हलि' (मू २८६) इत्यात्वम् । प्रराभ्याम् , प्रराभि । “नुमचिर-' (वा ४६७४) इति नुट्यात्वे प्रराणाम् ' इति माधवः । वस्तुतस्तु सन्निपातपरि भाषया नुट्यात्वं न । नामि' (मू २०९) इति दीर्घस्त्वारम्भसामर्थ्या त्सन्निपातपरिभाषां बाधते इत्युक्तम् । प्ररीणाम ।

इत्यैदन्ताः ।

॥ अथ अजन्तनपुंसकलिङ्गे ओदन्तप्रकरणम् ॥

सुनु, सुनुनी, सुनृनि । सुनुना । सुनुने, इत्यादि ।

इत्योदन्ताः ।

इत्यजन्तनपुंसकलिङ्गप्रकरणम् ।

अथ ऐदन्ता निरूयन्ते । एकारान्तस्यदाहरणन्तु स्मृत इ येन स स्मृते । सु शोभन स्मृतेर्यस्य तन् सुस्मृति इत्यादि बोध्द्यम् । प्ररीति ॥ प्रकृष्ट रा धन यस्य इति वहुव्रीहौ प्ररैशब्द । तस्य नपुमकह्रस्वत्वेन इकार । सुटि वारिन्त् । सोर्लुप्तत्वात् “रायो हलि' इत्यात्वन्न । टादावचि पुवत्त्वविकल्प प्रद्युशब्दवन् । भ्यामादौ हलि विशेषमाह । रायो हल्लीत्यात्वमिति । ननु रैशव्दस्य ऐदन्तस्य विहितमात्व कथमिदन्तस्येत्यत आह । एकदेशविकृतस्यानन्यत्वादिति ॥ आमि विशपमाह । नुमचिरेति । नुटि 'रायो हलि' इत्यात्वे प्रराणामित्यन्वय । ननु प्ररि आमिति स्थिते नुट बाधित्वा परत्वान्नुमि तस्या ङ्गभक्तत्वात् हलादिविभक्तयभावात् कथमात्वमित्यत आह । नुमचिरेति । पूर्वविप्रतिषेधा न्नुम बाधित्वा नुट्यात्वन्निर्बाधमिति भाव । सन्निपातेति । हृस्वान्तत्वमुपजीव्य प्रवृत्तस्य नुटस्तद्विघातकमात्व प्रति निमित्तवासम्भवात् इति भाव । ननु तर्हि हृस्वान्तत्वमुपजीव्य प्रवृत्तस्य नुट तद्विघातक “नामि' इति दीर्घ प्रति कथन्निमित्तत्वमित्यत आह । नामीति दीर्धस्त्विति । इत्युक्तमिति । रामशब्दाधिकारे इति शेप ॥

इत्यैदन्ताः ।

सु शोभना नौर्यस्येति विग्रहे वहुव्रीहौ “हृस्वो नपुसके' इति हृस्व उकार इति मत्वा आह । सुनु इति ॥

इत्यौदन्ताः ।

इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां

बालमनोरमायां अजन्तनपुंसकलिङ्गनिरूपणं समाप्तम् ।