पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
ओदन्तप्रकरणम्]
२१९
बालमनोरमा

॥ अथ अजन्तनपुंसकलिङ्गे ओदन्तप्रकरणम् ॥

३२३ । एच इग्घ्रस्वादेशे । (१-१-४८)

आदिश्यमानेषु ह्रस्वेषु एच इगेव स्यात् । प्रद्यु। प्रद्युनी । प्रद्यृनि । प्रद्यनेत्यादि । इह न पुवत् । यदिगन्तं प्रन्' इति, तम्य भाषितपुम्कत्वाभाः वात् । एवमग्रेऽपि ।

इत्योदन्ताः ।


अथ ओदन्ता निरूपयन्ते प्रकृष्टा या द्यो यस्येति वहुन्नाहो प्रद्योशब्दस्य ' ह्रस्वो नपुसके' इति ह्रस्य प्राप्नुवन् एचा ह्रस्वाभावात् तपा द्विस्थानन्वन अ, इ, उ, ऋ, ल इत्येतेषा ह्रस्वानामन्तर्तमत्वाभावात् अन्यतरस्थानमाम्याश्रयणे अवर्णादिषु यस्य कस्य चिद नियमेन पर्यांयेण वा प्राप्ताविदमारभ्यते । एच् इक् ॥ आदिश्यते इत्यादेश । कर्मणि घञ् । तस्य ह्रस्वपदेन सह कर्मधारय ।विशष्यस्यार्प पूर्वनिपात । आदेश इति निरधारणसप्तमी । मात्रमेकवचनम् । तदाह । आदिश्यमानेष्वित्यादिना ।। मध्द्ये इत्यपपाठ तद्योगे षष्ठ्या एवौचित्यात् ।इगेवेति ।। तेन आफारव्यावति फलतति भाव । यद्यपीकश्चत्वार एचोऽप्येवम् । तथापि स्थान्यादेशाना यथासङ्गयन्न भवति। न ह्ययमपूर्वविधि किन्तु नियम विधि । यथाप्राप्तमेव नियम्यते । एचा हि पूर्वभाग अवर्णसदृश । उत्तरभागस्तु इवर्णोवर्ण सदृश । तत्र पूर्वभागसादृश्यमवर्णस्यास्ति । तस्य च इग्ग्रहणेन निवृत्तौ इवर्णसादृश्यमात्रमादाय एकारस्य ऐकारस्य च इवर्ण , उवणसादृश्यात् ओकारस्य आकारस्य चव उवर्ण , इति व्यवस्था न्यायप्राप्ता यथाप्राप्तमेव च नियम्यते इति न यथासङ्खयम् । ततश्च प्रद्योशब्दे ओकारस्य उकार ह्रस्व इत्यभिप्रेत्योदाहरति । प्रद्यु इत्यादि । ननु पुन्नपुसकयो प्रकृष्टस्वर्गवत्वमेक मेव प्रवृत्तिनिमित्तमिति टादौ पुवत्त्वविकल्प कुतो नेत्यत आह । इह न पुंवदिति ॥ कुत इत्यत आह । यदिगन्तमिति।। प्रद्योशब्द ओदन्त पुसि । प्रद्युशब्दस्तु उदन्तो नपुसके। तथाच पुसि प्रद्योशब्दस्य भाषितपस्कत्वेऽपि नपुसके प्रद्युशब्दस्य तदपेक्षया भिन्नत्वेन भापितपुस्कत्वाभावान्न पुवत्त्वमित्यर्थ । केचित्तु पुसि य प्रद्याशब्द ओदन्त स एवेदानी नपुसक । तस्य हृस्वान्तत्वेऽपि एकदेशविकृतस्यानन्यत्वात्। अत पुवत्त्वविकल्पोऽस्त्येवेत्याहु एवमग्रेऽपीति । प्ररि, सुनु इत्यादावपीत्यर्थ

इत्योदन्ताः ।