पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/३

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्


१८८
[अजन्तस्त्रीलिङ्गे
सिद्धान्तकौमुदीसहिता

अन्तरस्यै शालायै । बाह्यायै इत्यर्थ । “ अपुरि' इत्युक्तेर्नेह । अन्तरायै नगर्यै ।

२९३ । विभाषा द्वितीयातृतीयाभ्याम् । (७-३-११५)

आभ्यां डित स्याट् स्यादापश्च ह्रस्व । इद सूत्र त्यक्तु शक्यम् । तीयस्य डित्सूपसङ्खयानात् । द्वितीयस्यै—द्वितीयायै । द्वितीयस्या —द्वितीयाया । द्वितीयस्या —द्वितीयाया । द्वितीयस्याम्-द्वितीयायाम् । शेष रमावत् । एव तृतीया । “ अम्बार्थनद्योर्हस्व ' (सू २६७) । हे अम्ब । हे अक्क । हे अल्ल । असंयुक्ता ये डलकास्तद्वतां ह्रस्वो न' (वा ४५९२) । हे अम्बाडे । हे अम्बाले । हे अम्बिके । जरा । जरसौ । शीभावात्परत्वाज्जरस् । आमि नुट


बाह्यायै इत्यर्थः इति ॥ “अन्तरमवकाशावधिपरिधानान्तविभेदतादर्थ्ये । छिद्रात्मीयविना बहिरवसरमद्ध्येऽन्तरात्मनि च ” इति कोशात् । अर्थान्तरपरत्वे तु सर्वनामत्वाभावात् न स्यादिति भाव । अपुरीत्युक्तेरिति ॥ 'अन्तर बहिर्योगे' इति गणसूत्रे इति शेष । विभाषा ॥ घेर्डिति' इत्यत डितीत्यनवृत्त पष्ठया विपरिणम्यते । “याडाप ' इत्यत आप इति, “सर्व नाम्नस्स्याट्’ इत्यतस्स्याडिति, ह्रस्व इति, चानुवर्तते । तदाह । आभ्यामित्यादिना ॥ इद मिति ॥ 'विभाषा द्वितीयातृतीयाभ्याम्' इति सूत्र न कर्तव्यमित्यर्थ । कुत इत्यत आह । तीयस्येति ॥ विभाषाप्रकरणे तीयप्रत्ययान्तस्य डित्सु सर्वनामत्वोपसङ्ख्यानादित्यर्थ । नच तीयस्य डित्सूपसङ्ख्यानमेव त्यज्यतामिति वाच्यम् । पुन्नपुसकत्वार्थ तस्यावश्यकत्वात् । अम्बार्थेति । व्याख्यातमिद पुसीदन्ताधिकारे । तत्र नदीविषये उदाहृतम् । अम्बार्थानुदाहरति । हे अम्बेत्यादि । शेष रमावत् । अत्र भाष्ये डलकवतीना प्रतिषेधो वक्तव्य । हे अम्बाडे । हे अम्बाले । हे अम्बिके । तदिद वार्तिक न कर्तव्यमित्युक्त्वा द्व्यच्कस्यैवाम्बार्थस्य ह्रस्व इति त्थितम् । यथाश्रुतवार्तिके तु हे अल्ल, इत्यत्राव्याप्तिस्स्यादिति तदाशय । तदत्र फलितमाह । असंयुक्ताः इति । द्वयच्कानामम्बार्थाना ह्रस्व इत्यस्याङ्गत्वात्तदन्तविधि । अत जगदम्ब इत्यत्र द्वयच्काम्बान्तत्वात् भवति ह्रस्व । जरेति । 'जॄष् वयोहानौ' । 'षिद्भिदादिभ्य' इत्यड् । 'ऋदृशोऽडि’ इति गुण, रपरत्वम्। अदन्तत्वात् टाप्, सु, हल्डयादिना सुलोप इति भाव । जरसाविति ॥ 'जराया जरसन्यतरस्याम्' इति अजादौ जरसादेश इति भाव । ननु शीभावै कृते सति आबन्तसन्निपातमुपजीव्य प्रवृत्तस्य सन्निपातपरिभाषया आबन्तत्ववि घातकजरसादेशनिमित्तत्वासम्भवेन जरसादेशाभावे आद्गुणे जरे इत्येव स्यादित्यत आह । शीभावादिति ॥ जरसि कृते तु आबन्तत्वान्न शीभाव इति भाव । जरस । जरसम्-जर सौ-जरस । टा जरसा । नचात्र जरा आ इति स्थिते जरसादेश बाधित्वा परत्वात् आडि चाप ’ इत्येत्त्वे अयादेशे जरयेत्येव युक्तमिति वाच्यम् । एकदेशविकृतन्यायेन कृते-


१ असयुक्ता इति तु “अम्बाले, अम्बाले, अम्बिके, इति भाष्योदाहरणाल्लभ्यते ।