पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/२

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्


आदन्त प्रकरणम् ]
१८७
बालमनोरमा ।

'आमि सर्वनाम्न ---' ( स २१७) इति सुट् । सर्वासाम् । सर्वस्याम् सर्वयो । सर्वासु । एव विश्वादयोऽप्याबन्ता ।

२९२ । विभाषा दिक्समासे बहुव्रीहौ । (१-१-२८)

अत्र सर्वनामता वा स्यात् । । उत्तरपूर्वम्यै-उत्तरपूर्वायै । 'ढिङ्ना मान्यन्तराले' (सू ८४५) इति प्रतिपदोक्तस्य ढिक्समासस्य ग्रहणान्नेह। योत्तरा सा पूर्वा उन्मुग्धायास्तस्यै उत्तरपूर्वायै । बहुव्रीहिग्रहण स्पष्टार्थम् ।


आपो हस्व , सवर्णदीर्घ इति भाव । ननु आबन्तस्य सर्वाशब्दस्य सर्वादिगणे पाठाभावात् कथ सर्वनामत्वमित्यत आह । एकादेशस्येति ॥ वकारादकारस्य आपश्च योऽयमेकादेशस्स वर्णदीर्घ तस्येत्यर्थ । ननु एकादेशनिष्पन्नस्य आकारस्य प्रर्वान्तत्वे आप्प्त्वव्याघातात् आबन्त त्व व्याहृतम् । न च परादिवत्त्वेन आवन्तत्वमपाति वाच्यम् । “उभयत आश्रयणे नान्तादि वत्' इति निषेधादिति चेत् । सत्यम् । लिदविशिष्टपरिभाषया आबन्तस्य सर्वनामत्वम् । आवन्तन्वन्तु परादिवद्भावेनेत्याहु । सर्वस्यामिति ॥ डा सर्वा इ इति स्थिते सुट बाधित्वा परत्वात् “डेराम्' इलाम्, स्याट्, ह्रस्वश्च । सकृद्गतिन्यायान्न पुनस्सुट् । एवमिति ॥ सर्वादि गणपठिताविश्वादय आबन्तत्व प्राप्तास्सर्वाशब्दवदित्यर्थ । उत्तरस्याश्च पूर्वस्याश्च दिशोर्यदन्त राळम् उत्तरपूर्वा । ‘दिङ्नामान्यन्तराळे' इति बहुव्रीहिविशेषोऽयम्। तत्र विशेष दर्शयितुमाह। विभाषा दिक्समासे ॥ “सर्वादीनि ' इत्यतस्सर्वनामग्रहणमनुवर्तते । तदाह । अत्रेति ॥ दिक्समासे इत्यर्थ । “न बहुव्रीहा' इत्यलौकिकविग्रहवाक्ये नित्यनिषेधे प्राप्ते विकल्पार्थमिति केचित् । गौणत्वादप्राप्ते विभापेयमित्यन्ये । सर्वनामत्वपक्षे उदाहरति । उत्तरपूर्वस्यै इति ॥ स्याड्ढ्रस्वो । उत्तरपूर्वायै इति । सर्वनामत्वाभावपक्षे याट् । उत्तरपूर्वस्या उत्तरपूर्वाया । उत्तरपूर्वासाम्-उत्तरपूर्वाणाम् । उत्तरपूर्वस्याम्-उत्तरपूर्वायाम् । “सर्वनाम्नो वृत्तिमात्रे पुवद्भाव ' इति मात्रग्रहणात् सम्प्रति असर्वनामत्वेऽपि पूर्वपदस्य पुदत्वम् । ननु उत्तरा दिगिति गत्वा मोहवशात् पूर्वा दिक् यस्यास्सा उत्तरपूर्वा “अनेकमन्यपदार्थे’ इति बहु व्रीहि । अत्रापि दिक्शाब्दघटितसमासत्वात् सर्वनामताविकत्पे उत्तरपूर्वस्यै-उत्तरपूर्वायै इति रूपद्वय स्यात् । स्याडागमस्तु नेष्यते । तत्राह । दिङ्नामानीति ॥ ‘दिङ्नामान्यन्तराळे' इति बहुव्रीहि प्रतिपदोक्तो दिक्समास । दिक्शब्दमुच्चार्य विहितत्वात् । नतु 'अनेकमून्यपदार्थे ' इति बहुव्रीहिरपि । ततश्च लक्षणप्रतिपदोक्तपरिभाषया न तस्य ग्रहणमित्यर्थ । योत्तरेति ॥ उत्तराशब्दस्य पूर्वाशब्दस्य च सामानाधिकरण्य द्योतयितु यत्तच्छब्दौ । सामानाधिकरण्याभावे अनेकमन्यपदार्थे' इति बहुव्रीहेरसम्भवात् । “बहुव्रीहि समानाधिकरणाना वक्तव्य ' इति वचनात्। उन्मुग्धायाः इति ॥ तेन पूर्वोत्तरयोर्विरोधात् कथ सामानाधिकरण्यमिति शङ्का नि रस्ता । ननु 'विभाषा दिक्समासे' इत्येवास्तु । बहुव्रीहिग्रहण न कर्तव्यम् । प्रतिपदोक्तत्वेन दिङ्नामानि' इति बहुव्रीहेरेव ग्रहणसिद्धेरित्यत आह । बहुव्रीहिग्रहणं स्पष्टार्थमिति