पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०८
[अजन्तनपुंसकलिङ्गे
सिद्धान्तकौमुदीसहिता

३१० । नपुंसकाच्च । (७-१-१९)

क्लीबात्परस्यौङः शी स्यात् भसंज्ञायाम् ।

३११ । यस्येति च । (६-४-१४८)

भस्येवर्णावर्णयोर्लोपः स्यादीकारे तद्धिते च परे । इत्यकारलोपे प्राप्ते । औङः श्यां प्रतिषेधो वाच्यः ' (वा ४१८९) । ज्ञाने ।

३१२ । जश्शसोः शिः । (७-१-२०)

क्लीबादनयोः शि स्यात् ।

३१३ । शि सर्वनामस्थानम् । (१-१-४२)

शि' इत्येतदुक्तसंज्ञं स्यात् ।

३१४ । नपुंसकस्य झलचः । (७-१-७२)

झलन्तस्याजन्तस्य च क्लीबस्य नुमागमः स्यात्सर्वनामस्थाने परे । उपधादीर्घः । ज्ञानानि । पुनस्तद्वत् । शेषं रामवत् । एवं 'धनवनफलादयः ।


स्वात्' इति लोपो निर्बाध इत्यन्यत्र विस्तर । नपुसकाञ्च ॥ ‘जसश्शी' इत्यतश्शीति ‘औड आप इत्यत औड इति चानुवर्तते । तदाह । क्लीबादिति ॥ औडित्यौकाराविभक्तेस्सज्ञेत्युक्तम् । ज्ञान ई इति स्थिते । यस्येति च ॥ यस्य ईतीति छेद । इश्च अश्च तयोस्समाहार य तस्य इवर्णस्य अवर्णस्य चेत्यर्थ । भस्येत्यधिकृतम् । “लशक्वतद्धिते' इत्यत तद्धित इत्यनुवर्तते । तदाह । भस्येत्यादिना । इत्यकारलोपे प्राप्ते इति । ‘सुडनपुसकस्य’ इति पर्युदासेन शी भावस्यासर्वनामस्थानतया तस्मिन् परतो भत्वादिति भाव । औङश्यामिति ॥ औड यश्शी आदेश तस्मिन् परत “यस्येति च' इति लोपस्य प्रतिषेधो वक्तव्य इत्यर्थ । श्यामिति निर्देशादेव नित्यस्त्रीत्व बोध्द्यम्। औौड इति तु व्यर्थमेव। सर्वे इत्यादौ ‘जसश्शी' इत्यस्य भाधि कारेणैव व्यावृत्तिसिद्धे । ज्ञाने इति ॥ ज्ञान ई इति स्थिते आद्गुण इति भाव । जश्शसो श्शिः ॥ ‘स्वमेोर्नपुसकात्’ इत्यतो नपुसकादित्यनुवर्तते । तदाह । क्लीबादिति ॥ ज्ञान शि इति स्थिते स्थानिवत्वेन प्रत्ययत्वात् “लशक्वतद्धिते' इति शकार इत् । शि सर्वनामस्थानम् । उत्क्तसंज्ञमिति ॥ सर्वनामस्थानसज्ञकमित्यर्थं । अनपुसकस्येति पर्युदासात् शि इत्यस्य सर्व नामस्थानत्वे अप्राप्ते वचनम् । नपुंसकस्य झलच ॥ झल्च अच्चेति समाहारद्वन्द्व । तेन च अङ्गस्येत्यधिकृत विशेष्यते । तदन्तविधि । “इदितो नुम्वातो ' इत्यत नुमित्यनुवर्तते । ‘उगि दचाम्' इत्यतस्सर्वनामस्थाने इत्यनुवर्तते । तदाह । झलन्तस्येत्यादिना ॥ मित्वादन्त्यादच पर । उपधादीर्घः इति । ज्ञान न् इ इति स्थिते “सर्वनामस्थाने च' इति दीर्घ इत्यर्थ । पुनस्तद्वदिति । अम्औट्शस्सु ज्ञानम् । ज्ञाने । ज्ञानानि । इति क्रमेण रूपाणीत्यर्थ ।