पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/२२

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


। श्रीरस्तु ।

॥ अथ अजन्तनपुंसकलिङ्गे अदन्तप्रकरणम् ॥

३०९ । अतोऽम् । (७-१-२४)

अतोऽङ्गात्क्लीबात्स्वमोरम्स्यात् । अमि पूर्वः' (सू १९४) । ज्ञानम् । एड्ह्रस्वात्-' (सू १९३) इति हल्मात्रलोपः । हे ज्ञान ।


अथाजन्तनपुसकलिङ्गा निरूप्यन्ते । ज्ञानशब्दात् सु “स्वमोर्नपुसकात्' इति तस्य लुकि प्राप्ते । अतोऽम् ॥ अत इति पञ्चमी । अङ्गस्येत्यधिकृत पञ्चम्या विपरिणम्यते । अत इत्यनेन विशेष्यते । तदन्तविधि । ‘स्वमोर्नपुसकात्’ इत्यनुवर्तते । तदाह । अतोऽङ्गादिति ॥ अदन्तादङ्गादित्यर्थ । ज्ञानमिति ॥ सोरमि कृते अमि पूर्वरूपम् इति भाव । अमोऽम्विधानन्तु ‘स्वमोर्नपुसकात्’ इति लुड्निवृत्त्यर्थम्। ननु अत म् इत्येव छेदोऽस्तु । सोर्मकारादेशे ज्ञानमिति सिद्धे । अमि च * आदे परस्य’ इति अकारस्य मकारे अन्यस्य मकारस्य सयोगान्तलोपेनैव ज्ञानमिति सिद्धेरिति चेन्मैवम् । एव सति ज्ञानामित्यत्र ‘सुपि च' इति दीर्घापत्ते । न च अदन्तस न्निपातमाश्रित्य प्रवृत्तस्य मादेशस्य तद्विघातकदीर्घनिमित्तत्व न सम्भवति । सन्निपातपरिभाषा विरोधदितिवाच्यम्।‘सुपिच' इति दीर्घकर्तव्ये सन्निपातपरिभाषाया अप्रवृत्तेरित्युक्तत्वादित्यलम् । हे ज्ञानेति । हे ज्ञान स् इति स्थिते सोरमि कृते पूर्वरूपे ‘एड्ह्रस्वात्’ इति मकारलोपे हे ज्ञानेति रूपम्। ननु एड्स्वादित्यत्र सम्बुद्याक्षिप्तस्य सम्बुध्ध्यैवान्वय उचित । ततश्च एडन्ताद्रस्वान्ता चाङ्गात् परा या सम्बुद्धि तदवयवस्य हलो लोप इति लभ्यते । ततश्च प्रकृते पूर्वरूपे कृते तस्य पूर्वान्तत्वाश्रयेण ज्ञान इत्यदन्तमङ्गम् । तत परा सम्बुद्धिर्नास्ति । मकारमात्रस्यासम्बुद्धित्वात् । सुस्थानिकस्याम एव सम्बुद्धित्वात् । अर्धविकारेण एकदेशविकृतन्यायानवताराञ्च । न च पूर्व रूपात् प्राक् ‘एड्ह्रस्वात्’ इत्यस्य प्रवृत्ति किन्न स्यादिति वाच्यम् । परत्वात् पूर्वरूपस्यैव पूर्व प्रवृत्ते । न च पूर्वान्तत्वात् पूर्वरूपस्याङ्गान्तर्भावात् ज्ञान इत्यदन्तमङ्गम् । परादित्वाञ्च अम् इत्यस्य सम्बुद्धित्व चेत्याश्रित्य तदवयवहलो मकारमात्रस्य ‘एड्ह्रस्वान्’ इति लोपो निर्वाध इति वाच्यम् । ‘उभयत आश्रयणे नान्तादिवत्' इति निषेधादित्यत आह । एङ्हृस्वादिति ह ल्मात्रलोपः इति ॥ पूर्वरूपे कृते सम्बुद्धेर्मकारमात्र यत् परिशिष्ट तस्य ‘एड्ह्रस्वात्’ इति लोप इत्यर्थ । लक्ष्यानुरोधात् सम्बुभ्याक्षिप्तमङ्ग सम्बुद्धौ नान्वेति । किन्तु सम्बुद्धद्यवयवहल्येवान्वेति । ततश्च एङन्तात् ह्रस्वान्ताचाङ्गात् परो य सम्बुद्यवयवहल् तस्य लोप इति लभ्यते । प्रकृते च पूर्वरूपे कृतेऽपि हूस्वान्तादङ्गातत्परत्व सम्बुध्द्यवयवस्य मकारमात्रस्य अस्त्येवेति तस्य ‘एड्ड्र-