पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१२३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


३०८
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

वाक्-वाग्, वाचौ, वाचः । वाग्भ्याम् । वाक्षु ।

इति चान्ता ।

॥ अथ हलन्तस्त्रीलिङ्गे पकारान्तप्रकरणम् ॥


॥ अथ हलन्तस्त्रीलिङ्गे पकारान्तप्रकरणम् ॥


अप्शब्दो नित्यं बहुवचनान्त . । * अप्तृन्-' (सू २७७) इति दीर्घ । आपः। अपः।


४४२ । अपो भि । (७-४-४८)

अपस्तकार स्याद्भादौ प्रत्यये परे । अद्भि । अद्भय. । अद्भय अपाम् ।अप्सु ।

इति पान्ता ।

॥ अथ हलन्तस्त्रीलिङ्गे शकारान्तप्रकरणम् ॥

दिक्-दिग्, दिशौ, दिश । दिग्भ्याम् । दिक्षु । “त्यदादिषु


अथ चकारान्ता निरूप्यन्ते ॥ वागिति ॥ वचे * किब्वचि' इत्यादिना के्विप्, दीर्घश्च, “वचिस्वपि' इति सम्प्रसारणाभावश्व, वाचू इात रूपम् । सुलोप, चो कु, जश्त्वचर्त्वे इति भाव ।

इति चान्ता ।

अथ पकारान्ता निरूप्यन्ते ॥ अप्शब्दः इति ॥ 'अप्सुमनस्समासिकतावर्षाणा बहुत्वञ्च ' इति स्रयधिकारे लिङ्गानुशासनसूत्रात् नित्य बहुवचनान्तत्व स्त्रीत्वञ्चेत्यर्थ । दीर्घः इति ॥ जपीति शेष । अपः इति । ‘अप्तृन्' इत्यत्र 'सर्वनामस्थाने चासम्बुद्धौ' इत्यनुवृत्ते शसि न दीर्घ इति भाव । अपो भि ।। * अच उपसर्गात्त ’ इत्यस्मात् त इत्यनुवर्तते । अङ्गाधिकारस्थमिदम् । ततश्च अङ्गाक्षिप्तप्रत्यय भि इति सप्तम्यन्तेन विशेष्यते, तदादिविधि । तदाह । अपस्तवकारः इत्यादिना । प्रत्यये किम्, अब्भक्ष । अद्भिरिति ॥ पकारस्य तकारे जश्त्वमिति भाव ॥

इति पान्ता ।