पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१२४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


सकारान्तप्रकरणम्]
३०९
बालमनोरमा ।

(सू ४२९) इति दृशे किन्विधानादन्यत्रापि कुत्वम्। दृक्-दृग, दृशौ, दृश : ।

इति शान्ता ।

॥ अथ हलन्तस्त्रीलिङ्गे षकारान्तप्रकरणम् ॥

त्विट्-त्विड्, त्विषौ, त्विष । त्विड्भ्याम् । त्विट्त्सु-त्विट्सु । सह जुषत इति सजू, सजुषौ, सजुष । सजूभ्र्याम् । सजूष्षु-सजूषु । षत्वस्यासिद्धत्वादुत्वम्। आशी, आशिषौ, आशिष । आशीर्भ्याम् । आशीर्भि ।

इति षान्ता ।

॥ अथ हलन्तस्त्रीलिङ्गे सकारान्तप्रकरणम् ।

असौ । त्यदाद्यत्वं, टाप्। औङ. शी । उत्वमत्वे । अमू, अमू । अमूम्


अथ शकारान्ता निरूप्यन्ते । दिगिति । “दिश अतिसर्जने' ऋत्विगादिना

क्विन्, सुलोप, ‘व्रश्च' इति ष, तस्य जश्त्वेन ड , तस्य ‘क्विन्प्रत्ययस्य कु' इति कुत्वेन ग , तस्य चर्त्वविकल्प इति भाव । दृश्यन्ते अर्थाः अनयेति विग्रहे सम्पदादित्वात् दृशे क्विप्, तत स्सुलोपे, “ व्रश्च' इति षत्वमाशङ्कय आह । त्यदादिष्विति ॥ अन्यत्रापीति त्यदाद्युपपदाभावेऽपीत्यर्थ । क्विन् प्रत्यय यस्माद्विहित इति बहुव्रीह्याश्रयणादिति भावः । दृगिति ॥ षडगका प्राग्वत् ॥

इति शान्ता ।

अथ षकारान्ता निरूप्यन्ते । त्विडिति ॥ 'त्विष दीप्तौ' क्विप्, सुलोप, जश्त्व चर्त्वे इति भाव । सजूरितेि ॥ 'जुषी प्रीतिसेवनयो ' क्विप्, “सहस्य स सज्ञायाम् इति वा ‘ससजुषो ' इति निपातनाद्वा सहस्य सभाव, सोर्लोप, ‘ससजुषो रु' इति षस्य रुत्व, र्वोरुपधाया ' इति दीर्घ । “ आडश्शासु इच्छायाम्' क्विप्, * आशास क्वावुपसङ्खयानम् इत्युपधाया इत्व, ' शासिवसिघसीनाश्च ’ इति सस्य ष, आशिष्शब्दात् सोर्लोप, एतावत् सिद्धवत्कृत्य आह॥ षत्वस्येति ॥ आशीरिति । षस्य रुत्वे कृते * र्वोरुपधाया ' इति दीर्घ इति भाव ॥

इति षान्ता ।

अथ सकारान्ताः निरूप्यन्ते ॥ असाविति ॥ अदश्शब्दस्य स्त्रियामपि पुवदेव सौ रूपमित्यर्थ. । अदस् औ इति स्थिते प्रक्रिया दर्शयति । त्यदाद्यत्वमित्यादिना ॥ अत्वे ,