पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/179

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R \9R सिद्धान्तकौमुदीसहिता [उद्न्त शुष्कीयते: किप् । शुष्की । पकी. । इयड् । शुष्कियौ । शुष्किय । डसिडसी शुष्किय., इत्यादि । इति ईदन्ता । -Cama ॥ अथ उदन्तप्रकरणम् ॥ शम्भुहरिवत्। एवं विष्णुवायुभान्वादय. । २७४ । तृज्वत्त्रक्रोष्टुः । (७-१-९५) क्रोधुस्तृजन्तेन तुल्यं वर्तते, असम्बुद्धौ सर्वनामस्थाने परे। क्रोधुशब्दस्य स्थाने क्रोष्ट्रशब्द प्रयोक्तव्य इत्यर्थः । क्रिपि शुष्कीरिति रूपमिल्यर्थ । अडयन्तत्वान्न सुलेप । शुषधातो त्तक शुष्क । 'शुष क ' इति कत्वम् । सखीसुतील्यादिशब्दवत् शुष्कीशब्द । शुष्कियाविल्यादि । सयोगपूर्वत्वान्न यण् । किन्तु इयडिति विशेष इति भाव । ङसिड्सोः शुष्किय. इति ॥ न च कत्वस्यासिद्धत्वातूख्यत्यातू परत्वादुत्व शड्रयम् । इयडादेशे सति कृतयणादेशत्वाभावातू इति भाव ॥ इति ईदन्तप्रकरणम् । अथ उदन्ता निरूप्यन्ते । शम्भुहैरिवदिति ॥ तत्र पूर्वसवर्णदीर्घ ऊकार । गुणस्तु ओकार । अव् इत्यादयोऽपि विशेषास्त्वान्तरतम्यात् सङ्गता इति भाव ।। *कुश आह्वाने, रोदने च” इति धातो “सितनिगमिमासिसच्यविधाञ्कुशिभ्यस्तुन्” इति तुन्प्रल्यये 'व्रश्व ? इति शस्य षकारे छुट्वेन टकरे च क्रेषुशब्द । कुशधातो कर्तरि तृचि तु कोष्ट्रशब्द। द्वावपि सृगालवाचिनी । तयोरविशेषेण सर्वत्र प्रयोग प्राप्त विशेष दर्शयितुमाह । तृज्वत्क्रोटुः ॥ प्रत्ययग्रहणपरिभाषया तृच् इति तृजन्त गृह्यते ।। *तेन तुल्यम्’ इति तृतीयान्ताद्वति । 'इतोऽत् सर्वनामस्थाने' इत्यतस्सर्वनामस्थाने इति 'सख्युरसम्बुद्धी' इत्यतोऽसम्बुद्धावित चानुवर्तते । तदाह । क्रोष्टुस्तृजन्तेनेत्यादिना ॥ ** कायैरूपनिमित्ताथैशास्त्रतादात्म्यशब्दिता । व्यपदेशश्च सप्तैतानतिदशान् प्रचक्षते ॥” इति । तत्र प्राधान्यादिह तृजन्तरूपमेव अतिदिश्यते । तच्च न कर्तृ भर्तृ इल्यादितृजन्तरूपम् । किन्तु क्रोष्टृ इत्येव तृजन्तरूप अतिदिश्यत । कुशधातोरुपस्थितत्वात्, अर्थत आन्तयीच, इत्याभिप्रल्य फलितमाह । क्रोध्नुशब्दस्य स्थाने इति ॥ निमित्तादीनामुदाहरणानि तु तत्र तत्र प्रदर्शयिष्याम । क्रोष्टुं स् इति स्थिते