पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/176

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम्] बालमनोरमा । १६९ परत्वादियङ्। नियम्। निय । डेराम्। नियाम्। ‘ असंयोगपूर्वस्य' किम् । सुश्रियी। यवक्रियौ। ‘ गतिकारकेतरपूर्वपदस्य यण् नेष्यते' (वा ५०३४)। शुद्धधियौ । परमधियौ । कर्थ तहि ‘ दुधिय ? ‘ वृश्विकभिय ? इत्यादि । उच्यते। ‘दु,स्थिता धीर्यषाम्' इति विग्रहे ‘दुर' इत्यस्य धीशब्द प्रति गतित्वमेव नास्ति । यत्क्रियायुक्ता प्रादयस्त प्रत्येव गत्युपसर्गसञ्ज्ञा । वृश्विकशब्दस्य बुद्धिकृतमपादानत्वं नेह विवक्षितम् । वृश्विकसम्बन्धिनी भीठुँश्चिकभीरित्युत्तरपदलोपो वा । शब्दादस्य वैलक्षण्यमिति भाव । सुश्रियाविति ॥ * श्रिञ्जू सेवायाम्? ।। * क्रिब्वचि ? इत्यादिना क्किप् प्रकृतेर्दीधैञ्च । सु श्रयतीति शोभना श्रीरस्येति वा सुश्री । तत अजादिप्रल्यंये यण न भवति । इवर्णस्य धात्ववयवसयोगपूर्वकत्वादिति भाव । यवक्रियाविति ॥ यवान् क्रीणा तीति यवक्री । क्रीञ्धातो क्रिपि रूपम् । अत्रपि धात्ववयवसयोगपूर्वकत्वान्न यणिति भाव । “ एरनेकाच ” इतिसूत्ने 'गतिकारकपूर्वस्यैवेष्यते इति वार्तिक पठितम् । तत्तात्पर्यत सगृह्वाति । गतिकारकेतरेति ॥ यथाश्रुते तु उदाहृतक्विन्तकुमारीशब्दे यण्न स्यातू । शुद्धधि याविति ॥ शुद्धा धीर्यस्येति विग्रह । अत्र शुद्धशब्दस्य गतिकारकेतरत्वात् तत्पूर्वकस्य न यष्णिति भाव । शुद्ध ब्रह्म ’यायतीति विग्रहे तु स्यादेव यण् । शुद्धध्येौ, इत्यादि । कर्थ तहति ॥ यदि गतिकारकेतरपूर्वस्यैव यष्णू पर्युदस्यते, गतिकारकपूर्वस्य तु अवश्य यणू, तदा दुर्धिय, वृश्चिकभिय, इल्यादि कथमिल्यन्वय । आदिना दुधियौं, वृश्चिकभियौ, इत्यादिसङ्ग्रह । दुस्थिता धीयेंषामिति विग्रह । 'प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोप ' इति बहुत्रीहि । पूर्वपद उत्तरखण्डस्य लोपश्च। वृधिकात् भौरिति विग्रह । अत्र दुरो गतित्वात् वृश्चिकस्यापादनत्वाच गतिकारकपूर्वत्वात पर्युदासाभावे सति इयडपवादोऽत्र यष्णू दुर्वीर इत्याक्षेप । उच्यते इति ॥ परिहार इति शेष । गतित्वमेव नास्तीति ॥ 'उपसर्गा क्रियायोगे, गतिश्व' इति प्रादीना क्रियान्वये गत्युपसर्गसज्ञे विहिते । धीशब्दश्ध बुद्धिगुणवाची, न तु क्रियावाची । अते न त प्रति दुरो गतित्वमिति गतिपूर्वेकत्वाभावात नात्र यष्णू । किन्तु इयडेवेल्यथै । ननु लुप्तस्य स्थिताशब्दस्य क्रियानिमित्तकत्वात् त प्रति दुरो गतित्वमस्त्येवेल्यत आह । यत्क्रियेति ॥ यया क्रियया युक्ता प्रादय त प्रत्येव तद्वाचकशव्द प्रत्येव गत्युपसर्गसज्ञका इल्यर्थ । नचैवमप्यत्र स्थिताशब्द लुप्त प्रति प्रवृत्त दुरो गतित्वमादाय दुर्धाशब्दस्य गतिपूर्वकत्वमस्येवेति वाच्यम् । 'यक्रियायुक्ता प्रादय तक्रियावाचक प्रत्येव गत्युपसर्गत्वम् ।।’ तथाविधक्रियावाचकस्यैव च गत्युपसर्गकायमल्यर्थस्य विवक्षितत्वात 'यत्क्रियायुक्ता ? इति च प्रत्यासतिन्यायलभ्यम् । वृश्चिकेति ॥ वृश्विकशब्दस्यापादनत्व नेह विवक्षितमिल्यन्वय । कुत इत्यत आह। बुद्धिकृतमिति ॥ आरोपितमिल्यर्थ । अपादानत्व हि विश्लेषावधि १ इद च *गतिकारकपूर्वस्यैवैष्यते? इति भाष्यफलितार्थकथनम् । R 22