पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/173

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६६ सिद्धान्तकौमुदीसहिता [ईदन्त २७० । ङेराम्नद्याम्नीभ्यः । (७-३-११६) नद्यन्तादाबन्तान्नीशब्दाञ्च डेराम् स्यात् । इह परत्वादाटा नुट् बाध्यते । बहुश्रेयस्याम् । शेषमीप्रल्ययान्तवातप्रमीवत् । अड-यन्तत्वान्न सुलोप । अतिलक्ष्मी । शेष बहुश्रेयस्सीवन् । कुमारीमिच्छन्कुमारीवाचरन्वा ब्राह्मण कुमारी । क्यजन्तादाचारकिबन्ताद्वा कर्तरि किप् । ‘ हल्डयाप-' (सू. २५२) इति सुलोप । डसिडसोर्बहुश्रेयसी आ अस् इति स्थिते ‘आटश्च ' इति वृद्धी आकार याण रूपमिति भाव । अत्रापि सवर्णदीर्घेण सिद्धम् । न्याग्यत्वात् * अाटश्च ? इति वृद्धि । नद्यन्तात्परत्वादिति ॥ श्रयसीशब्दस्य ईकारान्तानल्यर्खालेङ्गतया नदीत्वेन बहुश्रेयसीशब्दस्य नद्यन्तत्वादिति भाव । बहुश्रेयसी इ इति स्थिते * अञ्च घे ? इति * इदुद्भ्याम्’ इति च न भवति । अधित्वात् सवर्णदर्वे प्राप्ते । ङेराम्नद्याभ्यः ॥ अाङ्गत्वात् प्रल्ययग्रहणपरिभाषया च तदन्तविधि अभिप्रेत्य आह । नद्यन्तादिल्यादिना ॥ डेरिति सप्तम्येकवचनम् । व्याख्यानातू । नन्वामि कृते 'हुस्वनद्याप ' इति नुष्टि 'यदागमा ? इति न्यायेन नामोऽप्याम्याग्रहणेन ग्रहणातू 'आण्नद्या ? इति आडगमस्यादित्याशङ्कृष्य आह । इह परत्वादिति ॥ न चे कृतेऽप्याडागमे जुद्द् किन्न स्यादिति वाच्यम् ।। *विप्रातिपेधेन यद्वाधित तद्वाधितमेव’ इति न्यायादिति भाव । शेष मोप्रत्ययान्तेति ॥ वातप्रमीशब्दस्यापि ईवर्णान्तधातुत्वाभावेन आमि शसि डी च 'एरनेकाच? इति यण प्राप्त्यभावादिति भाव । ' लक्षर्मुट् च ? इति लक्षधातोरीप्रल्यये तस्य मुटि च लक्ष्मीशब्द । लक्ष्मीमतिक्रान्त इति विग्रहे 'अलयादय कान्ताद्यथे ' इति समास इति भाव । अस्त्रीप्रल्ययान्तत्वान्नोपसर्जनहस्व । अङव्यन्तत्वादिति ॥ औणादिकप्रल्ययान्तत्वादिति भाव । शेष बहुश्रेयसीवदिति ॥ * प्रथमालिङ्गग्रहणञ्च ? इति नदीत्वादिति भाव । अथ धातुत्वमापन्ने कुमारीशब्दे पुल्लिङ्गे बहुश्रेयसीशब्दाद्वैलक्षण्य दर्शयितुमाह । कुमारीमिच्छान्नित्यादिना । वक्यजन्तादिति ॥ कुमारीमात्मन इच्छतीत्यर्थे *सुप आत्मन क्यच्’ इति क्यच्च । कच्चावितौ ।। * सनाद्यन्ता ? इति क्यजन्तस्य धातुत्वात् तदवयवसुप अम ‘सुपी धातुप्रातिपदिकयो ? इति लुक्। तत ‘किप च’ इति कर्तरि किप् । कपाविती। इकार उच्चारणार्थ । अतो लोप , ' लेपो व्यो ' इत यलोप । 'वेरपृक्तस्य ” इति वलोप 1 कुमारी इति रूपम्। आचाराक्कबन्तादिति ॥ कुमारीवाचरतील्यर्थ “ सर्वप्रातिपदिकेभ्य क्किब्वा वक्तव्य ' इति क्रिप्। कपावितौं । 'वेरपृक्तस्य ” इति वलोप । “सनाद्यन्ता ” इति धातुत्वात् कर्तरि क्रिप् । तस्य च पूर्ववत् कृत्स्त्रलोप । कुमारीति रूपम् । नच क्रिबर्थ प्रति कुमाराशब्दस्य उपसर्जनत्वात् ‘ गोस्त्रियो ? इति हूस्वश्शङ्कय ।। * गोस्त्रियो ? इत्यत्र शास्त्रीयोपसर्जनस्यैव ग्रहणात् ।। * कृत्रिमाकृत्रिमयो कृत्रिमस्यैव ग्रहणात्? । हल्डयाबिति सुलोपः इति ॥ नच क्यजन्ते कथ सोलोंप । पूर्वस्माद्विधावलेपस्य स्थानिवद्धावादिति वाच्यम् । “ क्वी लुप्तन्न स्थानिवत्” इति निषेधादिति भाव । कुमारी