पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/172

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम्] बालमनोरमा । १६५ २६७ । अम्बार्थनद्योर्हस्वः । (७-३-१०३) अम्बार्थीना नद्यन्ताना च ह्रस्व. स्यात्सम्बुद्धो । हे बहुश्रेयसि । शसि बहुश्रेयसीन् । २६८ । आण्नद्याः । (७-३-११२) नद्यन्तात्परेषा डितामाडागम स्यान् । २६९ । आटश्ध ॥ (६-१-९०) आटोऽचि परे वृद्धिरेकादेश म्यात् । बहुश्रेयस्यै । बहुश्रेयस्या । बहुश्रेयस्या । नद्यन्तात्परत्वान्नुट् । बहुश्रेयसीनाम् । किम् । वातप्रम्ये । नित्येति किम् । ग्रामण्ये । ननु प्रकृते वहुश्रेयसीशब्दस्य पुर्छिङ्गत्वात् कथ नदीसञ्ज्ञेल्यत आह ।। * प्रथमलिङ्गग्रहणञ्च ? वातिकमेतत् । प्रथमस्य समासादिवृतिप्रवृत्ते पूर्व प्रवृत्तस्य स्त्रीलिङ्गस्य 'यू स्त्रयाख्यें ? इत्यत्र ग्रहण कर्तव्यमित्यर्थ । नन्वेव सति समासदिवृत्यभावे गौर्यादिशब्दाना नदीत्व न स्यादिल्याशझुष्य अपिशव्दमद्याहृत्य व्यैाचटे । पूर्वमित्यादिना ॥ समासादिवृतिप्रवृत्ते पूर्व स्त्रीलिक्स्य सत वृत्तिदशायामुपसर्जनतया स्त्रीलिङ्गत्वाभावेऽपि नदीत्व वत्तव्यमिति वार्तिकाथै इति भाव । अम्बाथैनद्योर्हृस्वः ॥ अम्बार्थानामिति ॥ अम्बाप्पर्यायाणामल्यथै । नद्यतान्तानामिति ॥ अङ्गाधिकारस्थत्वात्तदन्ताविधि । तुत्यन्यायत्वादम्बार्थनामिल्यत्रापि तदन्तविधिर्बोद्ध्य । सम्बुद्धाविति ॥ * सम्बुद्धे च’ इत्यतस्तदनुवृत्तरिति भाव । अम्बागार्यादिशब्देषु नर्दत्वन्तु व्यपदेशिवद्भावेन तदन्तत्वात् ज्ञेयम् । हे बहुश्रेयसि इति ॥ हस्वे सात “एड् हृस्वात्” इति सम्बुद्धिलोप । हृस्वे गुणस्तु न । प्राक्रयालाघवाय “अम्बार्थनयो हुँस्व ' इत्यनुका, अम्बार्थनद्योर्गुण , इति वाच्ये हृस्वविधिसामथ्र्यादिति स्पष्ट भाष्ये । बहुश्रेयस्यौ । बहुश्रेयस्य ' दीर्घाज्ञास च' इत पूर्वसवर्णदीर्घनिषेधे यण् । आर्म पूर्व । बहुश्रेयसाम्। बहुश्रेयस्यौं । बडुश्रेयसीन् इति ॥ पूर्वसवर्णदीधैं सति “ तस्माच्छस ” इति नत्वमिति भाव । बहुश्रेयस्या । अघित्वान्नाभावो न, किन्तु यणादेश । बहुश्रेयसीभ्याम्। बहुश्रे यसीभि । बहुश्रेसी ए इति स्थिते घित्वाभावान्न तत्कार्यम् । याण बहुश्रेयस्ये इति प्रासे । अाण्नद्या. ॥ अङ्गस्येल्यधिकृत पञ्चम्या विपरिणम्यते । नद्या इति पञ्चम्यन्तेन विशेष्यते । तदन्तविधि । 'घेर्डिनि? इत्यत डितीलयनुवृत्त षष्ठ्या विपरिणम्यते । तदाह । नद्यन्तादिल्यादिना ॥ टित्वादाद्यवयव । बहुश्रेयसी आ ए इति स्थिते । आटश्च ॥ ‘इको यणचि’ इत्यत अचीति 'वृद्धिरेचि ' इत्यत वृद्धिरिति चानुवर्तते । ' एक पूर्वपरयो ' इति चाधिकृतम्। तदाह। आटोऽचीत्यादिना। बहुश्रेयस्यै इति ॥ बहुश्रेयसी आ ए इति स्थिते 'आटश्व' इति वृद्धी यणादेशे च रूपमिति भाव । यद्यपि 'वृद्धिरेचि' इत्येव सिद्धम् । तथापि ऐक्षत इल्याद्यर्थम 'आटश्च ' इति सूत्रम्। इहापि न्याय्यत्वादुपन्यस्तम्। बहुश्रेयस्याः इति ॥