पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/169

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

&s R सिद्धान्तकौमुदीसहिता [इदन्त द्वौ । द्वौ । द्वाभ्याम् । द्वाभ्याम् । द्वाभ्याम् । द्वयो । द्वयो । ‘ द्विप र्यन्तानाम् ' इति किम् । भवान् । भवन्तौ । भवन्त । संज्ञायामुपसर्जनत्वे च नात्वम्। सर्वोद्यन्तर्गणकार्यत्वात्। द्विनीम कश्चित्। द्वि । द्वी। द्वय । द्वावतिक्रा WM wa SN Nfa न्तोऽतिद्वि । हरिवत् । प्राधान्ये तु परमद्वावित्यादि । औडुलोमि । औडुलोमी । उडुलोमा ।। * लोम्नोऽपत्येषु बहुष्वकारो वक्तव्य ? (वा २५६०) । बाह्वादीओऽपवाद । औडुलोमिम्। औडुलोमी । उडुलोमान् । इति इदन्ता । द्विपर्यंन्तानामेव ग्रहणे भाष्ट्र कारस्य इच्छेत्यर्थ । द्विशब्दस्य द्विवचनेषु परतोऽत्वे कृते रामशब्दवदूपाणीत्याह । द्वावित्यादि ॥ द्विपर्यन्तानामिति किमिति ॥ युष्मदस्मदेोरान्वयत्वयलोपैबाँधात् किम कदेशविधानाच तेषा त्यदादिष्वन्तभोंवेऽपि न दोप इति प्रश्र । भवान् । भवन्ताविति ॥ भवत् स् इति स्थिते * उगिदचाम् ' इति नुमि हल्डव्यादिलेपे सयोगान्तलेपे 'सर्वनामस्थाने च'<ति दीर्वे भवानिनि रूपम्। द्विपर्यन्तानामिलयभावे तु भवत् स् इति स्थिते तकारस्य अत्वे कृते 'अतो गुणे' इति पररूपे 'उगिदचाम्' इति नुमि 'सर्वनामस्थाने? इति दीर्घ सुलेपे नलेपे भवा इति स्यात् । तथा भवत् औ इति स्थिते पूर्ववत्तकारस्य अत्वे पररूपे नुमि दीर्घ च भवानाविति स्यादिति भाव । अथ यदुत ‘सज्ञोपसजैनीभूताना सर्वोदिगणकार्यमन्तर्गीणकार्यञ्च न भवति ' इति तत् स्मारयति । संज्ञायामित्यादिना ॥ द्वि नमेति ॥ नामेल्यव्यय प्रसिद्धौ । द्विरिति प्रासिद्ध कश्चित् इत्यथै । अत्र च सञ्ज्ञाभूतस्य द्विशब्दस्य एकद्विबहुवचनानि सन्ति । एकद्वित्रयादिष्वपि द्विसज्ञकत्वासम्भवादित्यभिप्रेल्य आह। द्वि, द्वी, द्वयः, इति । अतिद्धिरिति ॥ * अत्यादयः ? इति समास । परमट्टाविति ॥ कर्मवारयोऽयम् । सञ्ज्ञोपसर्जनत्वाभावादिह अत्व भवत्येव । आङ्गत्वेन पदाङ्गाधिकारपरिभाषया तदन्तग्रहणादिति भाव ॥ उडूनि नक्षत्राणीव लोमानि यस्य स उडुलेोमा । तस्यापत्यमौ डुलेमि ' बाह्वादिभ्यश्व' इति इञ् । “नस्तद्धिते' इति टिलोप । आदिवृद्धि । अस्य एकवचन द्विवचनयो सर्वत्र हरिवदूपम्। तदाह। औडुलोमि.। औडुलोमी, इति ॥ बहुवचने तु उडुलेमा इति क्रथम् । बाह्वादिगणस्थत्वेन इञ्ज प्रसङ्गादिल्यत आह । लोस्रोऽपलेयषु बडुष्वकारो वक्तव्यः । लेमन्शब्दात् बहुप्वपत्येषु विवक्षितेषु अकार प्रल्ययो वक्तव्य इलयर्थ । बाह्वादोञः इति ॥ बाह्वादिगणाद्विहितस्य इञोऽपवाद इत्यर्थे । उडुलेोमा इत्यत्र उडुलोमन् अम् इति स्थिते 'नस्तद्धिते'इति टिलेोप । ब्णित्वाभावातू कित्वाभावाच नादिवृद्विरित भाव । उडुलोमशब्द अकारान्त । तस्य सर्वत्र बहुवचनेषु रामवद्रूपामिति भाव ॥ इति इदन्तप्रकरणम् ।