कतिषु । अस्मद्युष्मद्षट्सज्ञकास्त्रिषु सरूपा । विशब्दो नित्यं बहुवचनान्त. ।
त्रय । त्रीन् । त्रिभि । तिभ्य । त्रिभ्य ।
२६४ । त्रेस्त्रयः । (७-१-५३)
त्रिशब्दस्य त्रयादेश स्यादामि । त्रयाणाम् । परमस्त्रयाणाम् । गौणत्वे तु नेति केचित् । प्रियत्रीणाम् । वस्तुतस्तु प्रियत्रयाणाम् । त्रिषु । द्विशब्दो नित्य द्विवचनान्त ।
२६५ । त्यदादीनामः । (७-२-१०२)
एषामकारोऽन्तादेशा स्याद्विभक्तौ । 'द्विपर्यन्तानामेवेष्टि ' (वा ४४६८)
लिङ्गविशेषबोधकटाबाद्यभावादिति भाव । नचैव सति ‘अलिङ्गे युष्मदस्मदी' इति माम आकम्’ इति सूत्रस्थभाष्यविरोध इति वाच्यम् । पदान्तरसन्निवान विना लिङ्गविशेषो युष्मदस्मच्छब्दाम्या न प्रतीयते इति हि तदर्थ । अत एव “न षट्स्वस्रादिभ्य ' इति पञ्चन्ना दिषट्सज्ञकेभ्यः टाब्डीब् निषेधस्सङ्गच्छते । अन्यथा स्रीत्वाभावादेव तदभावे सिद्धे कि तेन । अत एव च “डे प्रथमयो इति सूत्रे भाष्ये युष्माँनित्यत्र “तस्माच्छसो न पुसि' इत्युपन्यासस्सङ्गच्छते । अत एव च । ‘नेतराच्छन्दसि’ इति सूत्रे शिशीनुमादिभिर्युष्मदस्मादाद्यादेशाना विप्रतिषेधपर वार्तिक तद्भाष्य ञ्च सङ्गच्छते इति दिक् । त्रिशब्दे विशेषमाह । त्रिशब्दः इति । त्रि आम् इति स्थिते नुटि दीर्घे णत्वे त्रीणामिति प्राप्ते । त्रेस्त्रयः ॥ “आमि सर्वनान्न ? इत्यत आमीत्यनुवर्तते । तदाह । त्रि शब्दस्यत्यादिना ॥ अनेकात्त्वात् सर्वादेश । नुट् दीर्घश्च । तदाह । त्रयाणामिति त्रेरयड्' इति तु नोक्तम् । अयड् अनड इत्यादिवत् डकारात्पूर्वस्य अकारस्य उच्चारणार्थत्व शङ्काप्रसङ्गात् । अङ्गाधिकारस्थत्वात् “पदाङ्गाधिकारे' इति परिभाषया त्रेरिति तदन्तग्रहणमित्य भिप्रेत्योदाहरति । परमत्रयाणामिति ॥ परमाश्च ते त्रयश्चेति विग्रह । प्रिया त्रयो यस्य इति प्रियत्रिशब्दो बहुव्रीहि । तस्यान्यपदार्थप्रधानत्वादेकद्विबहुवचनानि सन्ति । अतो। हरिवत्तस्य रूपाणि । तत्र त्रयादेशमाशङ्कय आह । गौणत्वे त्विति । त्रिशब्दस्य उपसर्ज नत्वे “त्रेस्रय' इति न भवतीति केचिदाहुरित्यर्थ । 'गौणमुख्ययोर्मुख्ये कार्यसम्प्रत्यय ' इति न्यायात् इति भाव । वस्तुतस्त्विति । प्रियत्रयाणामित्येव रूप वस्तुत्वेन ज्ञेयामित्यर्थ । प्रामाणिकमिति यावत् । गौणमुख्यन्यायस्त्वत्र न प्रवर्तते । तस्य पदकार्य एव प्रवृत्ते । अत एव उपसर्जनाना सर्वनामत्वप्रतिषेध आरब्धो वार्तिककृता । अत एव च प्रियतित्रेत्यादौ ति स्रादय भाष्ये उदाहृतास्सङ्गच्छन्ते इत्यन्यत्र विस्तर । अथ द्विशब्दे विशेषमाह । द्विशब्दः इति ॥ तस्य द्वित्वनियतत्वादिति भाव । द्वि औ इति स्थिते । त्यदादीनामः ॥ “अष्टन आ किभक्तौ' इत्यतो विभक्तावित्यनुवर्तते । एषामिति ॥ त्यदादीनामित्यर्थ । त्यद् आदिर्ये षामिति विग्रह । अन्तादेश इत्यलोऽन्त्यपरिभाषालभ्य । विभक्तौ किम् । तत्फल ‘स्वमोर्नपुस कात्' इति लुकि अत्वन्न । द्विपर्यन्तानामिति ॥ सर्वादिगणे ये त्यदादय पठिता तेषामिह