पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/165

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तकौमुदीसहिता [इदन्त مهما ؟ इति विग्रहे परमसखा। परमसखायौ। इल्यादि। गौणत्वेऽप्यनङ्णत्वे प्रवर्तते। सखीमतिक्रान्तोऽतिसखि । लिङ्गविशिष्टपरिभाषाया अनित्यत्वान्न टच्। हरिवत् । इहानड्णत्त्वे न भवति ।। * गोस्त्रियो -' (सू ६५६) इति ह्रस्वत्वेन सखिशब्दस्य लाक्षणिकत्वान् । * लक्षणप्रतिपदोत्तयो प्रतिपदोत्तस्यैव ग्रहणातू' (प ११४) । २५७ ॥ पति: समास एव । (१-४-८) पतिशब्द समास एव घिसंज्ञ स्यात् । पत्या । पत्य । पत्यु । पत्यु । इति हूस्व । अतिसखेरागच्छति इत्यत्र इकारलोपाभावात्सवर्णदीर्घ तस्य एकादेशस्य पूर्वीन्ततया सखिग्रहणेन ग्रहणात् असखीति पर्युदासे घिसञ्ज्ञाप्रतिषेधापत्ते । इकारलेपे तु सति डीषो हुस्वत्वे कृते नाय सखिशब्द । डीषस्तदवयवत्वाभावात्” इति भाष्य सङ्गच्छते इति, शब्देन्दुशेखरे प्रपश्चितम् । परमसखेति । बहुत्रीहित्वात्तत्पुरुषत्वाभावान्न टच् । ननु बहुत्रीहौ सखिशब्दस्य गोणत्वात् कथमनड्णत्त्व । गौणमुख्ययोर्मुख्ये कार्यसप्रत्यर्थ , इति न्यायात् इत्यत अाह । गैौणत्वेऽपीति ॥ * मिदचेोऽन्ल्यात् ’ इति सूत्रे * तृज्वत् क्रोष्टु, स्त्रियाञ्च ? इति भाष्यकैयटयो तथा दृष्टत्वादिति भाव । अतिसखिरिति ॥ ‘ अल्यादय क्रान्ताद्यर्थ द्वितीयया ? इति समास । ‘गोखियो ' इति हृस्व । 'राजाहस्साखभ्यष्टच्’ इति टचू तु न भवति। तस्मिन् कर्तव्ये हृस्वस्य बह्नपेक्षतया बहिरङ्गतया चासिद्धत्वेन ईकारान्तत्वात् । नन्वेवमपि 'प्रातिपादकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' इति परिभाषया सखीशब्दान्तादपि टच् स्यादिल्याशड्रय आह । लिङ्गविशिष्ट्रेति ॥ 'शक्तिलाङ्गलाडुश? इति वार्तिके घटघटीग्रहणात्तस्या अनिल्यत्वामति भाव । ननु हरिवदिति कथम् । अनड्णद्वद्भावयो प्रवृतौ रूपभेदादित्यत अाह । इहेति ॥ कुतो न भवत इत्यत आह । गोस्त्रियोरिति ॥ लाक्षाणिकत्वादिति ॥ लक्षण शास्त्र तत्र भव इत्यथें 'बहुचोऽन्तोदात्तातू' इति वा अद्यात्मादित्वाद्वा ठक् । सखिशब्दस्वरूपस्य सामान्यतश्शास्त्रादुत्रेयत्वादिति यावत् । सखिशब्दस्तु नैवम् । समान ख्यायत जनरिल्यर्थे इणति डिचेति यलोप इति चानुवर्तमाने ' समाने ख्य स चेोदात्त ” इति ख्याधातोरिणश्च विशिष्योपादानेन व्युत्पादितत्वेन तस्य प्रतिपदोक्तत्वादिति भाव । ननु लाक्षणिकस्यापि ग्रहण कुनो नेल्यत आह । लक्षणेति । लक्षणशब्देन लाक्षाणक विवक्षितम् । विशिष्य प्रत्यक्षोपपादित प्रतिपदोत्तमित्युच्यते । तयोर्मध्ये प्रतिपदोत्तस्यैव ग्रहणमिति परिभाषितत्वादित्यर्थ । प्रातपदोक्त झटित्युपस्थितिकम् । लाक्षणिकन्तु लक्षणानुसन्धानाद्विलम्बितोपस्थितिकम् । प्रतिपदोक्तमादाय शास्त्रस्य चारतार्थत्वान्न लाक्षणिके प्रवृत्तिरिति न्यायसिद्धा चेय परिभाषा । अथ पतिशब्द विशेष दर्शयति । पतिस्समास एव ॥ *शषा ध्यसाखे ? इत्यती घीत्यनुवर्तते । तदाह । पतिशब्दः इत्यादिना ॥ पल्या । पल्ये इति ॥ धित्वा