पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/162

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम्] बालमनोरमा । ፮'ጳoጳ हलन्तात्परं दीघों यौ डयापैौ तदन्ताच पर सु ति सि इयेतदपृत हलू लुप्यते । 'हल्डयाव्भ्य ? किम्। ग्रामणी । ' दीर्घान् ? किम्। निष्कौशाम्बि । अतिखटु । ‘सुतिसि' इति किम्। अमैत्सीत् । तिपा सहचरितस्य सिपी ग्रहणात्सिचो ग्रहर्ण नास्ति । “ अपृक्तम्' इति किम् । बिभर्ति । “ हलु ' किम्। बिभेद। ‘ प्रथमहलू किम्। राजा । नलोपादिर्न स्यात्। संयोगान्तलोपस्यासिद्धत्वान् । सखा । हे सखे । कर्मसाधनमाश्रयते । लुग्यत इति लेप । कर्मणि घञ् । तदाह। हलन्तात्परमिल्यादिना ॥ हल्ङ्याब्भ्यः किमिति ॥ राम इत्यादावदीर्घान्तत्वान्न दोष इति प्रश्न । ग्रामणीरिति ॥ ग्राम नयतीति विग्रह । 'णीन् प्रापणे, सत्सद्विष' इल्यादिना किप्। 'अग्रग्रामाभ्या नयतेर्णे वाच्य ” इति णत्वम् । हन्डयाबन्तत्वाभावान्न सुलेप । दीर्घात् किमिति ॥ डच्यापोदघैित्वाव्यभिचारात् किमर्थं दार्घत्वविशेषणमिति प्रश्च । निष्कौशाम्बिः । अतिखटुः इति ॥ निष्क्रान्त कैशाम्ब्या, खट्टामतिक्रान्त, इति विग्रहे 'निरादय क्रान्ताद्यर्थे पञ्चम्या” “अल्यादय कान्ताद्यर्थ द्वितीयया ” इति समास । “गोखियो ” इति हृस्वत्वम् । अत्र इयापोर्हृस्वत्वेन सुलोप । सुतिसि इति किमिति ॥ अभैत्सीदिति ॥ भिदेछैडि सिच । अत्न तकारात् सकारस्य लेपो न । सुतिस्यन्यतमत्वाभावादित्यर्थ । ननु मिच्चास्सिरे वायमित्यत आह । तिपेति ॥ तिपा सहचरितस्य विभक्तिरूपस्यैव ग्रहणात् सिचो ग्रहण नेल्यर्थ । अपृक्तमिति किम्। बिभर्तीति । अत्र ति इति समुदायस्य न हत्त्वम् । तकारस्तु यद्यपि तेरवयव ॥ तथापि तस्य नापृक्तत्वम् । वस्तुतस्तु उकारे इकारे च छुसे परिशिष्टस्सकारस्तकारश्व सु ति सि इलयनेन गृह्योत । हल्शब्दसामानाधिकरण्यादित्युक्तम्। नात्न इकारलोपोऽस्ति । अतो हल्ग्रहणेनैव बिभर्तीत्यत्र लेोपाभावसिद्धे । अपृत्तग्रहणस्य नेद् प्रत्युदाहरणम् । द्वितीयहलग्रहणस्य प्रयोजन पृच्छति । हल् किमिति ॥ बिभेदेति ॥ भिदर्लिट् तिप्। णल अकारस्य हल्त्वाभावान्न लोप । प्रथमहलू किमिति । राजन्स् इति स्थिते उपधादीर्घ सयोगान्तलोपेनैव राजेल्यादिसिद्धेरिति प्रश्न । नन्विद राजेति कथ प्रत्युदाहरणम् । सयेागान्तलेपनैव अन्यथासिद्धत्वादित्यत आह । नलोपादिने स्यादिति ॥ सयेागान्तलेपे सति नलीपो न स्यादिति भाव । आभनोऽत्रल्यत्र उत्त्वमादिशब्दार्थ । भिदर्लड सिप । ' इतश्व' इति इकारलोप । ' सिपि धाते रुर्वा ' इति रुत्वम् ! सलोप । अत्र “अतो रोरप्लुतात्' इत्युत्त्व न स्यात् । कुत इत्यत आह । संयोगान्तलोपस्यासिद्धत्वादिति ॥ हल्डयादिलोपसु नासिद्ध । षष्ठप्रथमपादस्थत्वादिति भाव । अत्र कचित् पुस्तकेषु 'दीर्घात् किमलारभ्य सयोगान्तलोपस्यासिद्धत्वात्' इत्यन्तस्सन्दर्भे न दृश्यते। युक्तचैतत् । मूलकृतैव प्रौढमनोरमायामस्य सन्दर्भस्य प्रदर्शितत्वादित शब्देन्दुशेखरे व्यक्तम् । सखेति ॥ सुलोपे सति ‘ न लोप ' इति नकारलोप । नचेह सुपमाश्रिल्य अनडि कृते तन्नकारमाश्रित्य सोलेपो न सम्भवति । सत्रिपातपरिभाषाविरोधादिति वाच्यम् । ' स्वतन्त्र.