पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/161

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

፳ ሂጳ8 सिद्धान्तकैौमुदीसाहेिता [इदन्त सख्युरज्ञस्यानडादेश स्यादसम्बुद्धौ सौं परे 'डिच' (सू ४३) इत्यन्तादेश । २४९ । अलोऽन्त्यात्पूर्व उपधा । (१-१-६५) अन्त्यादलः पूर्वो वर्ण उपधासज्ञ स्यात् । २५० । सर्वनामस्थाने चासम्बुझै । (६-४-८) नान्तस्योपधाया दीर्घ स्यादसम्बुद्धी सर्वनामस्थाने परे । २५१ । अपृक्त एकाल्प्रल्ययः । (१-२-४१) एकाल्प्रत्ययो यः सोऽपृक्तसंज्ञ स्यात् । २५२ । हल्डयाब्भ्यो दीघौत्सुतिस्यपृत हलू । (६-१-६८) सख्युरङ्गस्येत्यादिना । सौ इति प्रथमैकवचनम्, नतु सप्तमीबहुवचनम् । असम्बुद्धाविति पर्युदासात् । अनडि डकार इत्, नकारादकार उच्चारणाथै । अनेकाल्त्वात् सर्वादेशमाशङ्कय आह । ङिच्चेति ॥ सखन् सू इति स्थिते उपधाकार्य वक्ष्यन् उपधासज्ञामाह । अलेोऽन्त्यात् ॥ अल इति पञ्चमी । अन्त्यादिति सामानाधिकरण्यातू । अल्प्रत्याहार वर्णपर्याय । पूर्वोऽप्यलेव गृह्यते । साजाल्यादित्याह । अन्त्यादलः इत्यादिना ॥ अल किम् । शिष्ट इत्यत्र शासूधातौ आस् इति सङ्घातात् पूर्वशकारस्य उपधात्व न भवति । अन्यथा “ शास इदड्हलो ” इति शकारस्य इकारप्रसङ्ग । वर्णग्रहण किम् । शास्धातौ शा इति समुदायस्य उपधात्व न भवति । अन्यथा शा इति समुदायस्य इकारस्स्यात् । न चालोन्त्यपरिभाषया अाकारस्यैव इकारो भवतीति वाच्यम् ।। * नानर्थकेऽलेोन्त्यविधि ? इति तन्निषेधात् । सर्वेनामस्थाने ॥ * नोपधाया ? इति सूत्रमनुवर्तते । न इति लुप्तषष्ठीक पदम् । तेनाङ्गस्येल्यवयवषछयन्त विशेष्यते । तदन्तविधि । ' ड्रलेपे? इत्यती दीर्घ इत्यनुवर्तते । तदाह। नान्तस्येल्यादिना ॥ सखान् स् इति स्थिते अष्टृत्तकार्य वक्ष्यन् अपृत्तसज्ञामाह । अपृक्तः ॥ एकालित कर्मधारय । अवैकशब्दोऽसहायवाची । ‘एके मुख्यान्यकेवला ” इत्यमर । स् इल्यस्यापृतसज्ञायाम्। हल्डयाब्भ्यो ॥ हल्च, डी च, आप्च, इति द्वन्द्ध। दिग्योगे पश्चमी। परमिल्यध्याहार्यम् । समासैकदेशयोरपि ङयापोरेव दीर्घादिति विशेषणम्, न तु हल । असम्भवात् । एवञ्च दीर्घादिति द्वित्वे एकवचनमार्षम् । हल्ङयाब्भ्य इत्यस्य सुतिस्याक्षिप्तप्रकृतिविशेषणतया प्रत्ययग्रहणपरिभाषया च तदन्तविधि । ततश्च हलन्ताच दीर्घडयावन्ताच परमिति लब्धम् । सुति सि इति समाहारद्वन्द्ध । अपृक्तमिति हालति च सामानाधिकरण्येनान्वति । उकारे इकारे च छते परिशिष्टस्सकारस्तकारश्व सु ति सि इलयनेन विवक्षित । ततश्च हाललयनेन सामानाधिकरण्य न विरुद्धते । “लोपो व्यो ' इत्यतो लोप इत्यनुवर्तते । तञ्च इह