पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४८
[अच्सन्धि
सिद्धान्तकौमुदीसहिता


६६। क्रय्यस्तदर्थे । (६-१-८२)

तस्मै प्रकृत्यर्थायेदं तदर्थम् । क्रेतार क्रीणीयुरिति बुद्धया आपणे प्रसारितं क्रय्यम् । क्रेयमन्यत् । क्रयणार्हमित्यर्थ

६७ । लोपः शाकल्यस्य । (८-३.१९

अवर्णपूर्वयो पदान्तयोर्यवयोर्वा लोपोऽशि परे “पूर्वत्रासिद्धम् । (सू १२) इति लोपशास्रस्यासिद्धत्वान्न स्वरसन्धि । हर हि-हरयेहि । विष्ण


स च न शक्यार्थक इति नात्र यान्तादेश इत्यर्थ क्रय्यस्तदर्थे ॥ 'दमपि यान्तादेशनिपात नार्थम् । तदर्थशब्द व्याचष्टे। तस्मा इति ॥ क्रयशब्दे य क्रीञ्तु यत्प्रत्ययप्रकृतिभूत तस्य योऽर्थ अभिधेय द्रव्यविनिमयरूप क्रय स प्रकृत्यर्थ तच्छदेन विवक्षित । तस्मै इद तदर्थं क्रयार्थं वस्तु । तथाच क्रयार्थे वस्तुनि गम्ये कीञ्धातोर्यादौ त्यये परे इति फलति । यान्त क्रीणस्तदर्थ इति विधौ गौरवान्निपातनमाश्रितम्। क्रियार्थत्वञ्चा । फलोपाधान विवक्षित मित्याह। क्रेतार इत्यादि क्रय्यमित्यन्तम् ॥ योग्यतामात्रग्रहणे तु