पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
४७
बालमनोरमा


अवश्यलाव्यम् । “ तन्निमित्तस्यैव' इति किम् । ओयते । औयत ।

६५ । क्षय्यजय्यौ शक्यार्थे । (६-१-८१)

यान्तादेशनिपातनार्थमिदम् । क्षेतुं शक्यं क्षय्यम् । जेतुं शक्यं जय्यम् । * शक्यार्थे 'किम् । क्षेतुं जेतु योग्य क्षेय पाप जेयं मन ।


यादिप्रत्ययनिमित्तकत्वाच गन्तादेश । अवश्यलाव्यमिति ॥ ‘ओरावश्यक’ इति लो ण्यत् । अचोञ्णितीत्यूकारस्य वृ औकार । अवश्यमित्यव्ययम्। मयूरव्यसकादित्वात्समास । लुम्पेद वश्यम कृत्य’ इति मलेो । अत्र औकारस्य धात्ववयवत्वात् यादिप्रत्ययनिमित्तकत्वाच्च वान्ता देश । ननु लव्यमवयलाव्यमित्यत्र वान्तो यीत्येव वान्तादेशस्सिद्ध । अतस्तन्निमित्त स्यैवेति नियमार्थमिद (सूत्रामिति स्थिति । तन्नियमविधे कि प्रयोजनमिति पृच्छति । तन्निमित्तस्यैवेति किमीति । नियमस्य कि प्रयोजनमित्यर्थ । ओयते इति ॥ वेञ् तन्तुसन्ताने कर्मणि ल । भावकर्मणोरित्यात्मनेपदम्। यक्। व चिस्वपियजादीनामिति वकारस्य सम्प्रसारणम् । उकार । पूर्वरूपम् । अकृत्सार्वधातुकयोरित्युकारस्य दीर्घ । आडा सह उकारस्य आद्गुण इति गुण ओगर । तस्य परादिवद्भावेन धात्ववयवत्वेऽपि यादिप्रत्ययनिमित्तकत्वाभा वात् न वान्तादेश । न्वत्र न धातुलोपसूत्रस्थभाष्यरीत्या आद्गुण इति गुणस्य ओकारस्य पद द्वयापेक्षत्वेन बहिरङ्गता वान्तादेशे कर्तव्ये असिद्धत्वादोकाराभावान्नवान्तादेशप्रसक्तिरित्यस्वर सादाह । औयतेति। वेञ् केवलात् कर्मणि लड् । आत्मनेपदादि पूर्ववत् । आडजादीनामि त्याट्। आटश्चेति वृ औकार । तस्य परादिवद्भावेन धात्ववयवत्वेऽपि यादिप्रत्ययनिमित्तकत्वा भावान्नवान्तादेश tात्र वृद्वेर्बहिरङ्गत्वम् । पदद्वयापेक्षत्वाभावात् । ‘सिद्धे सत्यारम्भो नियमार्थ’ इति न्यायेन नियमधिसिद्धे । तन्निमित्तस्यैवेत्येवकारस्तु विपरीतनियमव्यावृत्यर्थ । एवकाराभावे हि यादिप्रत्यानिमि कस्य चेदेचो वान्तादेश तर्हि धातोरेवैच इत्यपि नियम प्रतीयेत। तथा च बाभ्रव्य इत्यत्र वाप्रदेशेो न स्यात् । बभ्रोरपत्य बाभ्रव्य । मधुबभ्रोर्ब्राह्मणकौशिकयोरिति यञ् । ओर्गुण इत्युकारस् गुण ओकार । तस्य यादिप्रत्ययनिमित्तकस्य धात्ववयवत्वाभावात् वान्ता देशो न स्यात् । प’ इष्टनियमाववारणार्थ तन्निमित्तस्यैवेत्येवकार । क्षय्यजय्यौ शक्यार्थे ॥ शक्यार्थे क्षय्यजायब्दौ वाचकतया वर्तते इत्यर्थ । ननु किमपि कार्य विधेयमत्र न दृश्यते इत्यत आह । vति ॥ प्रातिस्विकविधिं विना सिद्धप्रक्रियस्य शब्दस्वरूपस्य निर्देशो निपा तनम् । ततश्नक्यार्थके यादौ प्रत्यये परे । क्षि क्षये जि जये इति धात्वोरेच. अय् इति यान्तादेशस्या विधानमत्र फलति । शक्यार्थे क्षिज्योर्यान्त इति प्रातिस्विकविधौ गौरवादे वन्निपातनामलिाव । क्षय्यमिति ॥ कृत्या इत्यधिकारे क्षिधातोरचो यदिति यत् प्रत्यय स च‘शकि शि’ इति शक्यार्थ । शक्यार्थे लिङ् स्यात् चात् कृत्या इति तदर्थं । सार्वधातुकार्द्ध धातुकयोरिइिन्कारस्य गुण एकार । तस्याच्परकत्वाभावादप्राप्त अयादेश अत्र निपात्यते । जय्यमित्यार्विवत् । शक्यार्थे किमिति ॥ शक्यार्थ इत्यस्य केि प्रयोजनमिति प्रश्रम् । क्षेतुमित्याधेितु योग्य क्षेय पापम् । जेतु योग्य जेयम्मन इत्यन्वयः । अहें कृत्यतृचश्चेति यत्