पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२
[संज्ञा
सिद्धान्तकौमुदीसहिता


प्रादय क्रियायोगे उपसर्गसंज्ञा गतिसंज्ञाश्च स्यु । प्र परा अप सम् अनु अव निस् निर् दुस् दुर् वि आङ् नि अधि अपि अति सु उत् अभि प्रति परि उप, एते प्रादय

२४ । न वेति विभाषा । (१-१-४४)

निषेधविकल्पयोर्विभाषा संज्ञा स्यात् ।


बहुत्व एकवचनमार्षम् । तदाह । प्रादय इत्यादिना । क्रियायोग इति ॥ क्रि याया अन्वये सतीत्यर्थ । निपाता इत्यप्यत्रानुवर्तते । प्राग्रीवरात्तदधिकारात् । ततश्च प्रादयो निपातसज्ञका एव सन्तो गत्युपसर्गसज्ञकाभवन्ति । आकडारादिति चव वाछद्यते । गत्यु पसर्गसज्ञयोस्तु गतिश्चेति चकारादेव समावेशस्सिद्यति । ततश्च प्रणेयमित्यादौ उपसर्गकार्य ‘उपसर्गादसमासेऽपि' इत्यादि सिध्द्यति । गतिकारकेत्यादि कार्यश्च निपातस्यानर्थकस्येत्यादि च । अथ प्रादीन् पठति । प्रपरेत्यादि ॥ परा इत्याकारान्त । अयवातौ ‘उपसर्गस्यायतौ' इति नि र्दुरोर्लत्वम्। निलयते दुलयते । निसो दुसश्च ‘ससजुषोरु' इति रुत्वस्यासिद्धत्वात् न लत्वम्। निरयते दुरयते । एतदर्थमेव निस् दुसोर्निर् दुरोश्च पृथक्पाठ । नवेति विभापा ॥ मेध्द्य पशुरन द्वान्विभाषित इत्यादि याज्ञिकप्रयोगे विभाषाशब्द केवलविकल्पे दृष्ट । इहतु शास्त्रे निषेधो विकत्पश्चेति द्वय मिळित विभाषाशब्दार्थ इति बोधयितुमिदमारभ्यते । इति शब्दाभावे स्व रूप शब्दस्येति न वा शब्दयो स्वरूपपरत्वान्नवाशब्दयोर्विभाषासज्ञेत्यर्थस्स्यात् ततश्च * विभाषाः श्वे' इत्यादौ न वा शब्दावादेशौ स्याता । इति करणे तु नाय दोष । इतिर्हि प्रत्येक सम्बद्यते। ततश्च नेति शब्देन योऽर्थो गम्यते निषेध , वेति शब्देन योऽर्थो गम्यते विकल्प , तदुभयस्य मिळितस्य विभाषा सज्ञा स्यादित्यर्थx फलति । एवञ्च नवाशब्दार्थयोरेव सज्ञित्व लभ्यते , न तु नवाशब्दस्वरूपयोरिति नोक्तदोष । तदाह । निषेधविकल्पयोरित्यादि । उभयत्र विभाषा र्थमिद सूत्रम् । तथाहि । प्राप्तविभाषा अप्राप्तविभाषा उभयत्र विभाषेति त्रिविधा वि भाषा । प्राप्तविभाषा यथा । विभाषा जसीति वर्णाश्रमेतरे वर्णाश्रमेतरा इत्यत्र द्वन्द्वे चेति नित्य तया सर्वनामसज्ञानिषेधे प्राप्ते विभाषेय । अप्राप्तविभाषा यथा । तीयस्य डित्सु विभाषेति । द्वितीयस्मै द्वितीयायेत्यादौ तीयप्रत्ययस्य सर्वदिगणे पाठाभावात् अप्राप्ताया सर्वनामसज्ञाया विभा षेयम् । उभयत्र विभाषा यथा । विभाषा श्वेरिति श्वयतेर्लिटि यडेि च सम्प्रसारण विभाषेयम् । तत्र लिटि शुशाव, शिश्वाय, शुशुवतु, शिश्वियतु, इत्याद्युदाहरणम् । यडि तु शोशूयते इति । अत्र यडशे अप्राप्तविभाषैवेयम् । लिटेि तु द्विवचनबहुवचनेष्वपित्सु “वचि स्वपि यजादीना किति” इति नित्यतया सम्प्रसारण प्राप्तम् । पित्सु त्वेकवचनेषु सम्प्रसारण न प्राप्तमेव । ‘असयो गाल्लिट् कित्” इति कित्वस्य अपित्स्वेव प्रवृत्ते । एवञ्च प्रासेऽप्राप्तच आरम्भात् “विभाषा श्वे ' इत्युभयत्र विभाषेति स्थिति । तत्र यदि ‘नवेति विभाषा' इति सूखन्नारभ्येत । तर्हि ‘अनङ्कान्वि भाषित’ इत्यादि याज्ञिकप्रयोग इव विभाषा श्रेरित्यत्रापि केवलविकल्प प्रतीयेत । भाव अभावश्चेति द्वयन्तावद्विकल्प । ततश्च विभाषाश्रुतौ प्रवृत्तिस्तदभावश्चेति द्वयमपि विवेयमिति