पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९०
[संज्ञा
सिद्धान्तकौमुदीसहिता

र्घाभावात् । एचामपि द्वादश । तेषां हूस्वाभावात् ।

१० । तुल्यास्यप्रयत्नं सवर्णम् । (१-१-९)

ताल्वादिस्थानमाभ्यन्तरप्रयत्नश्चेत्येतद्द्वयं यस्य येन तुल्यं तन्मिथ सवर्ण संज्ञ स्यात् । अकुहविसर्जनीयानां कण्ठ । इचुयशाना तालु । ऋटुरषाणां मूर्धा। लृतुलसानां दन्ताः । उपूपध्मानीयानामोष्ठौ । ज्यमडणनाना नासिका च । एदै


भाव । लृकारस्य दीर्घौभावे होतृ लृकार इत्यत्र सवर्णदीर्घ कृते होतृकार इति ऋकारस्यैव तुल्यास्यसूत्रे अकस्सवर्ण इति सूत्रे च भाष्योदाहरणमेव प्रमाणम् । हृस्वाभावादिति ॥ यद्येचेो ह्रस्वास्युस्तर्हि वर्णसमाम्नाये त एव लाघवात् अ इ उ इत्यादिवत् पठ्येरन्। नतु दीर्घा गौरवात् । अत एच हूस्वा न सन्तीति विज्ञायते । एव च हृस्वप्रपञ्चषड्भेदाभावात् द्वादश विधत्वमेवैचामिति भाव । अथ 'अणुदित्सवर्णस्यचाप्रत्यय' इति अ इ उ इत्यादिसज्ञा वक्ष्यन् सवर्णसज्ञामाह । तुल्यास्य ॥ आस्य मुख तत्स्थानसाम्यस्य सवर्णेष्वविशिष्टत्वादव्याव तैकत्वादास्यशब्दोऽत्र न मुखमात्रपर । किंतु आस्ये मुखे भवमास्य ताल्वादिस्थान “शरीराव यवाद्यत्' इति भवार्थे यत्प्रत्यय । “यस्येति च' इति प्रकृत्यन्त्यस्य अकारस्य लोप । प्रकृष्टो यत्न प्रयत्न । आास्य च प्रयत्न्नश्च आस्यप्रयत्नौ तुल्यौ आस्यप्रयत्नौ यस्य वर्णजालस्य तत्तुल्यास्य प्रयत्न्न परस्पर सवर्णसज्ञक स्यादिति भाव । तदाह । ताल्वादिस्थानमित्यादिना । मिथः इति ॥ परस्परमित्यर्थे । कस्य कि स्थानमित्याकाक्षाया तद्यवस्थापकानि पाणिन्यादि शिक्षावचनान्यर्थत सगृह्णाति । अकुहेत्यादिना । अ इत्यष्टादश भेदा गृह्यन्ते । कु इति कादिपञ्चकात्मक कवर्ग । नचाणुदित्सूत्रस्येदानीमप्रवृत्ते कथमत्र अ इत्यष्टादशभेदाना ग्रहण मिति वाच्यम् । लौकिकप्रसिद्विमाश्रित्यैव एतत्प्रवृत्ते एवमग्रेऽपि कथञ्चित्समाधान बोद्यम् अश्च कुश्च हश्च विसर्जनीयच्वेति विग्रह । विसर्जनीयशब्दोऽपि विसर्गपर्याय । इचु यशेति ॥ इ इत्यष्टादश भेदा । चु इति चवर्गे । इश्च चुश्च यश्च शश्चेति विग्रह । तालु हनु । ऋटुरषेति ॥ ऋ इत्यष्टादश भेदा । टु इति टवर्ग । आच टुश्च रश्च षश्चेति विग्रह । ऋशब्दस्य आ इति प्रथमैकवचनान्तम् । धाता इतिवत् । लतुलसेति लृ इत्यस्य द्वादश भेदा । तु इति तवर्ग । आच तुश्च लश्च सञ्चेति विग्रह । लृ शब्दस्यापि आ इत्येव प्रथमैकवचनान्तत्वम् । आ अलौ अल । दन्तशब्देन द न्तमूलप्रदेशो विवक्षित । अन्यथा भग्नदन्तस्य तदुचारणानुपपत्ते । उपूपेति ॥ उ इत्यष्टादश भेदा । पु इति पवर्ग । उश्च पुश्च उपध्मानीयश्चेति विग्रह । उपध्मानीयशब्द मनुपदमेव स्वय व्याख्यास्यति । अमङणनेति ॥ अश्च मश्च डश्च णश्च नश्चेति विग्रह. । चकारेण स्वस्ववर्गीयस्थानसमुच्चयः । एदैतोरिति ॥ एच ऐच एदैतौ । तपरकरणमसन्दे हार्थम् । नतु “तपरस्तत्कालस्य' इति तत्कालमात्रग्रहणार्थम् । तेन प्लुतयोरपि सङ्गह ।