इति विग्रहे परमसखा । परममखायौ। इत्यादि । गौणत्वेऽप्यनङ्णित्वे प्रवर्तेते
सखीमतिक्रान्तोऽतिसखि । लिङ्गविशिष्टपरिभाषाया अनित्यत्वान्न टच् । हरेि
वत् । इहानड़णित्वे न भवत । गोस्त्रियो (सू ६५६) इति हृस्वत्वेन
सखिशब्दस्य लाक्षणिकत्वान् * लक्षणप्रतिपदोक्तयो प्रतिपदोक्तस्यैव ग्रह
णात्' (प ११४)
२५७ । पतिः समास एव । (१-४-८)
पतिशब्द समास एव घिसंज्ञ स्यात् । पत्या । पत्ये । पत्यु । पत्यु
इति ह्रस्व अतिसखेरागच्छति इत्यत्र इकारलोपाभावात् सवर्णदीर्घे तस्य एकादेशस्य पूर्वा
न्ततया सखिग्रहणेन ग्रहणात् असखीति पर्युदासे घिसज्ञाप्रतिषेधापत्ते इकारलेोपे तु सति
डीषो हस्वत्वे कृते नाय सखिशब्द । डीषस्तदवयवत्वाभावात् इति भाष्य सङ्गच्छते इति, शव्दे
न्दुशेखरे प्रपञ्चितम् । परमसखेति । बहुव्रीहित्वात्तत्पुरुषत्वाभावान्न टच । ननु बहुव्रीहौ
सखिशब्दस्य गोणत्वात् कथमनङ्कणित्वे । गौणमुख्ययोर्मुख्ये कार्यसप्रत्यये , इति न्यायात् इत्यत
आह । गौणत्वेऽपीति 'मिदचोऽन्त्यात्' इति सूत्रे “तृज्वत् क्रोष्टु, स्त्रियाञ्च' इति
भाष्यकैयटयो तथा दृष्टत्वादिति भाव । अतिसखिरिति अत्यादय क्रान्ताद्यर्थे द्वितीयया
इति समास गोस्त्रियो ' इति हृस्व राजाहस्साखिभ्यष्टच्' इति टच् तु न भवति
तस्मिन् कर्तव्ये ह्रस्वस्य बह्वपेक्षतया बहिरङ्गतया चासिद्धत्वेन ईकारान्तत्वात् । नन्वेवमपि
प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्’ इति परिभाषया सखीशब्दान्तादपि टच् स्या
दित्याशङ्कय आह । लिङ्गविशिष्ठेति॥ शक्तिलाङ्गलाङ्कुश इति वार्तिके घटघटीग्रहणात्तस्या
अनित्यत्वामिति भाव । ननु हरिवदिति कथम् । अनड़णिद्वद्भावयो प्रवृत्तौ रूपभेदादित्यत
आह । इहेति ॥ कुतो न भवत इत्यत आह । गोस्त्रियोरिति ॥ लाक्षणिकत्वादिति
लक्षण शास्त्र तत्र भव इत्यर्थे 'बह्वचोऽन्तोदात्तात्' इति वा अद्यात्मादित्वाद्वा ठक् । सखि
शब्दस्वरूपस्य सामान्यतश्शास्त्रादुन्नेयत्वादिति यावत् । सखिशब्दस्तु नैवम् । समान ख्यायते
जनैरित्यर्थे इणिति डिच्चेति यलोप इति चानुवर्तमाने 'समाने ख्य स चोदात्त ? इति ख्याधातो
रिणश्च विशिष्योपादानेन व्युत्पादितत्वेन तस्य प्रतिपदोक्तत्वादिति भाव । ननु लाक्षणिक
स्यापि ग्रहण कुनो नेत्यत आह । लक्षणेति ॥ लक्षणशब्देन लाक्षणिक विवक्षितम्।
विशिष्य प्रत्यक्षोपपादित प्रतिपदोक्तमित्युच्यते । तयोर्मध्ये प्रतिपदोक्तस्यैव ग्रह्णमिति परि
भाषितत्वादित्यर्थ । प्रतिपदोक्त झटित्युपस्थितिकम् । लाक्षणिकन्तु लक्षणानुसन्धानाद्विळम्बि
तोपस्थितिकम् प्रतिपदोक्तमादाय शास्रस्य चरितार्थत्वान्न लाक्षणिके प्रवृत्तिरिति न्यायसिद्धा
चेय परिभाषा अथ पतिशब्दे विशेष दर्शयति । पतिस्समास एव ॥शेषोष्यसखि
इत्यतो घीत्यनुवर्तते । तदाह । पतिशब्दः इत्यादिना ॥ पत्या । पत्ये इति ॥ घित्वा